सामग्री पर जाएँ
सर्वकोश
मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

मयमतम् (मय मुनि प्रणीत वास्तुशास्त्र - डॉ. शैलजा पाण्डेय सविस्तार हिन्दी व्याख्या)

Mayamatam of Maya Muni with Hindi Commentary by Shailaja Pandey

मय मुनि (टीकाकार: डॉ. शैलजा पाण्डेय) द्वारा

DevanagariHindipublished395 पृष्ठ

पृष्ठ 204, कुल 395 में से

संदर्भ में पढ़ें
पृष्ठ 204

१८० मयमतम्
अष्टौ सीसकभागाः कांस्यस्य द्वौ तु रीतिकाभागः ।
मयकथितौ योगोऽयं विज्ञेयो वज्रसंघातः ।। (८)
६. भित्ति
(क) शिल्परत्न (पूर्व. २१ अ.) में पाँच प्रकार की—शिलानिर्मित, इष्टकानिर्मित,
जालक-(जाल)-निर्मित, फलकनिर्मित एवं मृत्तिकानिर्मित भित्तियों का वर्णन प्राप्त
होता है—
तत् कुड्यं पञ्चधा प्रोक्तं तत्तद्द्रव्यविशेषतः ।।
शिलामयं चेष्टकं च जालकामयमित्यपि ।
फलकामयमप्येतन्मृण्मयं च परं पुनः ।। (९-१०)
(ख) वास्तुविद्या (१५ अ.) में शिला, मृत्तिका एवं काष्ठनिर्मित भित्तियों का
वर्णन प्राप्त होता है—
शिलया च मृदाप्यथवा तरुणा रचयेदथ कुड्यमतीव दृढम्। (१)
इसकी 'लघुविवृति' टीका (त्रिवेन्द्रम् १९४० में प्रकाशित, पृ. १८६) में चौदह
प्रकार के भित्ति-निर्मित गृहों का वर्णन प्राप्त होता है—
गृहं तु विविधं प्रोक्तं शरीरैस्तु पृथग्विधैः ।
पाषाणैर्निचितं यच्च तद् गृहं मन्दिरं स्मृतम् ।।
पक्वेष्टकं वास्तुनाम भवनं हितमुत्तमम् ।
आमेष्टकं सुमन्तं तु सुधारं कर्दमेन तु ।।
मानस्यं वर्धितं काष्ठैर्वेणुभिर्नन्दनं स्मृतम् ।
वस्त्रैश्च विजयं प्रोक्तं राज्ञां शिल्पिविकल्पितम् ।।
कालिनामेति विज्ञेयमष्टमं तृणजातिभिः ।
उत्तमानि तु चत्वारि गृहाणि गृहमेधिनाम् ।।
सौवर्णं राजतं ताम्रमायसं च प्रकीर्तितम् ।
सौवर्णं पुष्करं नाम राजतं श्रीभवं तथा ।।
ताम्रेण सूत्रमन्तं तु चण्डनाम तथायसम् ।
देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।।
द्वादशैते प्रकारास्तु ग्रहाणां नियताः स्मृताः ।
जातुषं त्वानिलं नाम त्रापुषं वारिबन्धनम् ।।
एवञ्जातिषु सर्वासु गृहाणि च चतुर्दश ।