सामग्री पर जाएँ
सर्वकोश
मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

Manusmriti with Kulluka Bhatta Tika & Hindi Translation

महर्षि मनु द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished649 पृष्ठ

पृष्ठ 91, कुल 649 में से

संदर्भ में पढ़ें
पृष्ठ 91

भूमिका । ८६
अवैष्णवस्तु यो विप्रः सर्वकर्मसु गर्हितः ।
रौरवं नरकं प्राप्य चाण्डालीं योनिमाप्नुयात् ॥
चतुर्वेदी च यो विप्रो वैष्णवत्वं न विन्दति ।
वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥
पाखण्डितं च पतितमुन्मत्तं शवहारिणम् ।
अवैष्णवं द्विजं स्पृष्ट्वा सवासा जलमाविशेत् ॥
चक्रादिचिह्नहीनेन स्थाप्यते यत्र कर्मणि ।
न सांनिध्यं हरेर्याति क्रियाकोटिशतैरपि ॥
अवैष्णवस्थापितानां प्रतिमानां च वन्दनम् ।
यः करोति स मूढात्मा रौरवं नरकं व्रजेत् ॥
शूद्रादीनां तु रुद्राद्या अर्चनीयाः प्रकीर्तिताः ।
रुद्रार्चनं त्रिपुण्ड्रं च यत्पुराणेषु कीर्तितम् ॥ '
ये वचन श्रीविशिष्टाद्वैत-वादियों की वसिष्ठस्मृति में लिखे हैं ।
और—
' तस्मात्त्रिपुण्ड्रं विप्राणां न धार्यं मुनिसत्तमाः ।
यद्यज्ञानात्तं विभृयुः पतितास्ते न संशयः ॥
अवैष्णवस्तु यो विप्रश्चण्डालादधमः स्मृतः ।
न तेन सह भोक्तव्यमापद्यपि कदाचन ॥ '
ये इन लोगों के प्रजापति के वचन हैं । तथा—
' चक्रादिचिह्नरहितं प्राकृतं कलुषान्वितम् ।
अवैष्णवं तु तं दूरात्–श्वपाकमिव संत्यजेत् ॥
रुद्रार्चनाहू ब्राह्मणस्तु शूद्रेण समतां व्रजेत् ।
न भस्म धारयेद् विप्रः परमापद्गतोऽपि वा ॥
मोहाद्वै विभृयाद्यस्तु स सुरापो भवेद् ध्रुवम् । '