मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 436, कुल 649 में से
संदर्भ में पढ़ें२६६ मनुस्मृति ।
का नुक़सान होजाय तो मनुजी ने दण्ड नहीं कहा ॥ २८७-२६२ ॥
यत्रापवर्त्तते युग्यं वैगुण्यात्प्राजकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ २६३ ॥
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति ।
युग्यस्थाः प्राजकेऽनाप्ते सर्वेदण्ड्याः शतं शतम् ॥२६४॥
जहां सारथि के चतुर न होने से रथ इधर उधर चलता है उस
से नुक़सान होने पर स्वामी को दो सौ पण दण्ड होना चाहिए ।
और सारथि चतुर-होशियार हो तो उसीको दो सौ पण दण्ड
करे । सारथि कुशल न होने पर जो सवारी करते हैं वे सब सौ
सौ पण दण्ड क़ाबिल हैं ॥ २६३-२६४ ॥
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ॥ २६५ ॥
मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ २६६ ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ २६७ ॥
गर्दभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः ।
माषकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ २६८ ॥
भार्या पुत्रश्च दासश्च प्रेष्यो भ्राता च सौदरः ।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥२६६॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।
अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चोरकिल्विषम् ॥ ३०० ॥