मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 52, कुल 145 में से
संदर्भ में पढ़ें१६ मन्त्ररामायण
श्वरस्य प्रवेशोपि तेजोवन्नात्मके प्रपञ्चे गम्यते तथा-पृथुं कारणापेक्षयास्थूलं
योनिं प्रवेशस्थानं शरीरं "योनिष्ट इन्द्र निषदे अकारि" इति मन्त्रवर्णादन्न योनिः
स्थानम् असुरत्वा असुषु प्राणेषु रममाणत्वेन विरोचनमतेन 'आत्मैवेहमहप्य' (?)
इत्यादिनां श्रुतेन आससाद प्राप्तवानविद्यावान् देहं प्रविश्य तद्रूपोऽभवत् । तथा
च-"ब्रह्माणं तदनुप्रविश्य शच्च त्यच्चाभवत्" इति मूर्त्तामूर्त्तप्रपञ्चात्मकोऽभव-
दित्यर्थः । ततश्च तमेव प्रेयासं मन्यते नात्मानमिति जीवस्य बद्धत्वमुक्तम्
ईश्वरस्य देहिनः प्रविष्टत्वेपि तदसङ्गत्वमाह-ससनीलेभिरिति । शुद्धसत्त्वोपाधि-
रीश्वरः तस्य सनोळाः समानगृहाः निरतिशयधर्मज्ञानवैराग्यादयः सात्त्विकास्तैः
सहायैः स ईश्वरोऽप्यविद्यावतो जीवस्य मायाः देहाद्यात्मभावान् प्रसहानः
सोढवान् तैरनभिभूतोऽभून्नापि तान्प्रत्याह्वयत् असंगोदासीनसाक्षिरूपत्वात् । तत्र
हेतुः ऋतेनेति-यतः ऋते अबाधितानन्दरूपे न मायाः सन्तीतिशेषः । कथंभूतस्य
सस्र्यस्यसप्तमस्य । भ्रातुः तत्र प्रथमं सच्छब्दितं शुद्धं द्वितीयम् ईक्षितृमायशबलं
तृतीयचतुर्थपञ्चमानि तेजोवन्नानि षष्ठं त्रिवृत्कृतानां तेजोवन्नानां सङ्घातः साक्षी
वा । सप्तमः जीवः भ्रातृत्वं चिद्रूपत्वेन विम्बप्रतिबिम्बवत्साहश्यात् । एवमध्या-
रोपितस्य प्रपञ्चस्यापवादार्थं द्वाभ्यां साधनफलमाह-सत्रा जगिति।अत्र विद्यायाः
सैनिकाः शमाद्याः अविद्यायाः कामाद्याः परस्परं सहजशत्रवः । तत्र पूर्वेषां
दोर्बल्ये योगसंग्रामस्य प्रसक्तिरेव नास्ति साम्ये त्वरतीत्याह-स इति । स अविद्या-
वान् अपदुणादा मार्गेण यन् जं (?) याता यास्यति । निषिद्धकाम्यकर्मणी हि
नरकनश्वरसुखप्रदत्वाददुष्ट्येते तद्वर्जितेन ईश्वराराधनमार्गेण सञ्चरन् योगयुद्धयोग्यो
भवतीत्यर्थः । एतेन कर्मणां प्रत्यक्प्रावण्य्यार्थत्वं दर्शितम् स एव स्वस्यैव शतदुरस्य
विषयानन्त्यात् अनेकभोगद्वारस्य वेद्याभोग्यं धनं शब्दादिविषयजातं सनिष्यन्
श्रोत्रादिभ्यस्तद्ग्राहकेभ्यो विभजिष्यन् तेनैव हेतुना स्वर्षता स्वः शब्दितानां
शब्दादिप्राप्तिजानां साता विभाजयिता सन् परिषदत् सर्वं परित्यज्य निषीदन्नास्ते ।
यतः शब्दः श्रोत्रस्यैव विषयोऽस्तस्तज्जं सुखमपि तस्यैव न ममेत्युदास्ते इत्यर्थः ।
अतएव अनर्वा सर्वप्रवृत्तिशून्यः न अर्थति गच्छति प्रवर्त्तत इति योगात् । अत
एव शिश्नेन दिव्यन्ति तान् कामादीन् घ्नन् हिंसन्नेव वयसा स्वरूपेण प्रकाशमानेन
अभ्यभूत् । निःशेषकामविलय एव स्वरूपप्रकाशो मोक्ष इत्युच्यते ॥ ३ ॥ सयह्न
इति । सः अन्र्वावार्था शीघ्रगतिः तीव्रसंवेगो योगी प्रधन्वासु योगयुद्धयोग्यासु गोपु
योगभूमिषु अन्नमयप्राणमयमनामयविज्ञानमयानन्दमयाख्यासु सक्ति। सरवू (?)
तं तं कोषमुपसंक्रामन् यश्च महतीः अवनीः स्थूलाः भूमीः आ इत्यभिविधौ सर्वाः
जुहोति अर्थात् सूक्ष्मासु प्रबिलापयतीत्यर्थः । न पुनरुत्तरामपसंक्रामन्पूर्वामिव-