मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 451, कुल 856 में से
संदर्भ में पढ़ें४१६ मानसारै [अध्यायः
धूपदीपं ददे(द्या)त्प्राज्ञो मध्यकुम्भस्य मध्यमे ।
आराध्य गन्धपुष्पैश्च भुवनादिपतिं जपेत् ॥ २६ ॥ 52
घृतगुल(ड)शस्त्यदधि क्षीरान्नं वा निवेदयेत् ।
धूपदीपं ददे(द्या)त्ताम्बूलादि निवेदयेत् ॥ २७ ॥
दर्शयेद्धेनुमुद्रादीन् गीतादीन्(दि)नृत्तघोषगैः ।
तदग्रे स्थपतिः प्राज्ञो होमं कुर्यात्ततः क्रमात् ॥ २८ ॥ 56
समिदाज्यचरुं(रुं) लाजप्रत्येकमष्टोत्तरशताहुतिः ।
शुद्धतोयेन सङ्ख्याया(ङ्ख्यया) पञ्चविंशतिरेव वा ॥ २९ ॥
हृल्लेखं बीजमुच्चार्य स्वाहान्तं प्रणवान्तकम् ।
बिम्बं गायत्रि(त्री)मन्त्रेण पूर्णाहूतिं च कारयेत् ॥ ३० ॥ 60
अग्निकार्यावसाने तु विधिवद् बिम्बमाश्रयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणैः सह घोषयैः ॥ ३१ ॥
रत्नशुद्धिं ततः कुर्याद् गन्धपुष्पैरिवार्चयेत् ।
स्थपतिः प्रोक्षयेद् बिम्बं सर्वमङ्गलघोषयैः ॥ ३२ ॥ 64
धूपदीपं दधे(द्या)त् पश्चाद् बिम्बं (म्वाय) गायत्रीमन्त्रतः ।
आराध्य गन्धपुष्पैश्च धेनुमुद्रां प्रदर्शयेत् ॥ ३३ ॥
नववस्त्रेण गोप्य(प्याङ्गं) बिम्बस्य नेत्रमालिखेत् ।
सर्वान्दिक्छिशाखारेण(हस्तेन) स्पर्शयेच्चैकचित्तवत् ॥ ३४ ॥ 68
अचिर्रेखां(खा) समालिख्य सव्येऽक्षि कृष्णमण्डलम् ।
ज्योतिर्मण्डलं ध्यात्वा सौरमन्त्रं समुच्चरेत् ॥ ३५ ॥
पश्चात्तु वामनेत्रे तु शशिमन्त्रं समुच्चरेत् ।
ललाटे लोचनं ले(नमालि)ख्य अ(ख्या)ग्निवीजं समुच्चरेत् ॥ ३६ ॥ 72
पश्चात्तु स्वर्णलिप्ये(लेपे)न पयसाज्येन लेपयेत् ।
ततः प्रच्छादनं कुर्याद् वत्सा(स्त्रा)ङ्गकनकौः सह ॥ ३७ ॥
पायसं धनधान्यादिराशिं दर्शयेत्पुनः ।
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः ॥ ३८ ॥ 76
श्वेतानुलेपनं लिप्य नववस्त्रोत्तरीयवान् ।
स्वर्णयज्ञोपवीतश्च शि(सि)तपुष्पशिखा(वः) शुचिः ॥ ३६ ॥