मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 416, कुल 856 में से
संदर्भ में पढ़ें६१] गरुडलक्षणम् ३८१
केचित्तच्छू(च्छ्रि)यार्थं तु तार्क्ष्यं वर्णं विशेषतः ।
केशान्तात्कर्णसीमान्तं श्यामनीलाभसीमकम् ॥ ३९ ॥
भित्तिकाद्धृदयान्तं च तद्द्वयो(यं) कूर्परान्तकौ(कम्) । 108
पञ्चवर्णसमं श्रितपञ्चकांशुककञ्चुकी ॥ ४० ॥
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकराग्रयोः ।
पीतवर्णमिति प्रोक्तं तस्माद् [योर्] जानुकान्तकम् ॥ ४१ ॥
रक्तवर्णा तु पादान्तं श्वेतवर्णनिभं भवेत् । 112
द्विभुजाग्रं च वक्त्रं च द्विपादौ कुक्षिवौ भवेत्(ताम्) ॥ ४२ ॥
स्थानकं चासनं वापि विष्णुं ध्यात्वा(येत्) कृताञ्जलिः ।
सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥ ४३ ॥
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः । 116
अभिचारादिकाम्य(म्या)र्थं तार्क्ष्यरूपं विशेषतः ॥ ४४ ॥
पाद(दं) स्थानकं कुर्याद् वक्त्रं चासनं भागतः ।
सर्वाङ्गं स्वर्णवर्णं स्यात्पञ्चकञ्चुकिपूर्वकम् ॥ ४५ ॥
वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम् । 120
शीर्षं च सिंहपत्रैश्च(वक्त्रं च) संयुक्तं पञ्चवर्णयुक् ॥ ४६ ॥
नाभ्येकं शिरो(र ऊ)र्ध्वं तु कुक्कुटस्य शिरोऽभवत् ।
रक्तवर्णा तु पुच्छाग्रं पञ्चमान्तं(त्रं) तदायतम् ॥ ४७ ॥
घनं चोर्ध्ववक्त्रं च न प्रच्छादननास्यकम् । 124
सप्ताष्टपूर्ववत्साङ्गेवर्णवैपर्यं विश्वतः ॥ ४८ ॥
सौ(सु)ग्रामे क्षेत्रसीमान्ते चान्यप्र(त्र) निरीक्षयम् ।
क्षणिकालयं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥ ४९ ॥
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके । 128
नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥ ५० ॥
रिपुसंग्रहणार्थं चेद्धस्तौ रात्रौ च कारयेत् ।
युद्धकाले रिपुसंभं(भव)स्तम्भं हस्तौ च बन्धनम् ॥ ५१ ॥
शिलामृण्मये वापि दारुजे कटि(ट)शर्करा(रया) । 132
एतेषां(तैः) वैनतेयं च वर्णसंस्का[क]रमेव च ॥ ५२ ॥