मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 337, कुल 856 में से
संदर्भ में पढ़ेंतदूर्ध्वं त्र्यं(चां)शं त्रिधा भज्य वृत्तं पद्मं च वृत्तकम् ।
तदूर्ध्वं वृत्तसमं पद्मं पद्मतुल्यं च वृत्तकम् ॥ ६६ ॥ 136
तच्छ्रेष्ठं तु द्विभागे तु कुमुदं वृत्ताकृतिस्तथा ।
तदूर्ध्वांशं त्रिधा भज्य वृत्त(त्तं) पद्मं च कम्पकम् ॥ ६७ ॥
ऊर्ध्वे कर्णं त्रिभागं स्यात्तदूर्ध्वांशं त्रिधा भवेत् ।
कम्पं पद्मं च वृत्तं च द्विभागेन कपोतकम् ॥ ६८ ॥
तदूर्ध्वे चैकभागेन आ(चा)लिङ्गान्तरितं तथा । 140
प्रत्यूर्ध्वे वाजनं कम्पं सर्वालङ्कारसंयुतम् ॥ ६६ ॥
एवं तु पद्मभद्रं स्यादधिराजस्य योग्यकम् ।
तुङ्गे द्विरष्टभागं स्याज्जन्ममे(चै)केन कारयेत् ॥ ७० ॥
अर्धेन वाजनं चैव पादांशं क्षुद्रवेत्रकम्(वेशनम्) । 144
पादाधिकत्रयांशं च तदूर्ध्वे तु महाम्बुजम् ॥ ७१ ॥
तदूर्ध्वे निष्क्रमार्धेन तत्समं पद्मामेव च ।
द्विभागं कुमुदोत्तुङ्गं तदूर्ध्वेऽर्धेन चाम्बुजम् ॥ ७२ ॥
तत्समं चोर्ध्वकम्पं स्यात्त्रिभागेन गलोदयम् । 148
अंशेन कम्पपद्मं स्याद् द्व्यंशेन कपोतकम् ॥ ७३ ॥
अंशेन(ना)लिङ्गान्तरितं प्रतिवाजनमुच्यते ।
श्रीभद्रकमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥ ७४ ॥
अधिराजनरेन्द्रस्य(योः) सर्वासन(नं) योग्यकम् । 152
द्वाविंशांशर्क(क)तुङ्गे च जन्म द्व्यंशेन विन्यसेत् ॥ ७५ ॥
तदेव त्रिवृत्त(त्तं) शोभार्थं यक्षासोपानवक्त्रकम् ।
तदूर्ध्वे पद्ममेकांशं चार्धेनावृतवेत्रक(वेशन)म् ॥ ७६ ॥
अर्धेनाप्रकम्पं स्यात्तदूर्ध्वेऽर्धेन वृत्तकम् । 156
त्रि(त्र)यांशं वप्रदेशे तु नानापुष्पैश्च शोभितम् ॥ ७७ ॥
तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्समो(ममु)परि पङ्कजम् ।
अर्धेन वृत्तकं चोर्ध्वं तत्समं चोर्ध्वपद्मकम् ॥ ७८ ॥
तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्तुल्यं तद्दलं भवेत् । 160
एकेन मध्यवृत्तं स्यात्कुमुदाकारं तु निर्गमम् ॥ ७९ ॥