सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 329, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 329

कुञ्जराक्षमलं वा पत्रपुष्पाद्यलङ्कृतम् ।
क्षुद्रचेपणसंकीर्णं क्षुद्रनानाङ्घ्रिसंयुतम् ॥ १२ ॥
बहुपादश्रेणियुक्तमधिष्ठा[ना]ङ्घ्रिक्रयान्वितम् ।
एवं तु बालपर्यङ्कं सर्वालङ्कारसंयुतम् ॥ १३ ॥
एकविंशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ।
सप्तत्रिंशाङ्गुलान्तं स्यात्पर्यङ्कस्य विशालता ॥ १४ ॥
कन्यसाद्युत्तमान्तं स्यादङ्घ्रिकान्तरमेव च ।
एवं तु मानुषाणां च देवानां च विशेषतः ॥ १५ ॥
पाद(दं) बाह्यावसानं स्याद्विस्तारायामं मानयेत् ।
देवानां च द्विजातीनां विस्तारं(र) द्विगुणा(यमा)यतम् ॥ १६ ॥
विशाले तु गुणांशं वा द्वंशाधिकायतं तथा ।
तस्माद्धीनाधिकं चैतत्सर्वदोषसमुद्भवम् ॥ १७ ॥
त्रिचतुष्पञ्चषट्सप्ताष्टनन्ददशाङ्गुलम् ।
एकादशाङ्गुलान्तं च नवभेदमुदीरितम् ॥ १८ ॥
कन्यसाद्युत्तमान्तं स्यात्पट्टिकाविस्तृतं भवेत् ।
विस्तारार्धं तदुत्सेधं परितः पट्टिका भवेत् ॥ १९ ॥
वेदाश्रायतं सर्वं [तु] पर्यङ्कमिति कथ्यते ।
षडङ्गाद्यादिसर्वेषां विस्तारे परिकल्पयेत् ॥ २० ॥
परितः पट्टिका बाह्ये वृत्तवेत्रादिमण्डितम् ।
अधिष्ठानोपपीठं यत्कुर्याद्वै पट्टिकोन्नतम् ॥ २१ ॥
श्रीबन्धं कुट्टिमं कुर्याद् देवभूसुरभूपतेः ।
पादबन्धमधिष्ठानं सर्वजात्यार्हकं भवेत् ॥ २२ ॥
प्रतिभद्रोपपीठं स्याद् भूसुरसुरभूपतेः ।
वेदिभद्रोपपीठं स्याद्वैश्यशूद्रस्व(द्वयोः) योग्यकम् ॥ २३ ॥
उपपीठमधिष्ठानं नाटकाद्यादिनावृतम् ।
देवानां देवतारूपं मानुषाणां च मानवम् ॥ २४ ॥
देवानां सर्वरूपं स्यान्मानुषस्योक्तवद् भवेत् ।
पद्मापत्रादिचित्रैश्च सर्वालङ्कारसंयुतम् ॥ २५ ॥