सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 328, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 328

[Heading]
शयनविधानम्

देवानां च द्विजातीनां वर्णानां शयनार्थकम् ।
योग्यकं(क)पर्यङ्कस्य लक्षणं वक्ष्यतेऽधुना ॥ १ ॥
एकादशाङ्गुलमारभ्य द्व्यङ्गुलविवर्धनात् ।
पञ्चविंशाङ्गुलान्तं स्याद्वालपर्यङ्कविस्तृतम् ॥ २ ॥
एवं चाष्टविधं प्रोक्तं बालानां सर्वजाति(ती)नाम् ।
तदर्धं च त्रिपादं च तत्समाधिकमायतम् ॥ ३ ॥
विस्तारार्धं त्रिपादं च परितो वातायनोदयम् ।
तद्विस्तारसमं वापि त्रिपादं पादोदयं भवे(स्या)त् ॥ ४ ॥
त्रिचतुष्पञ्चाङ्गुलं वापि पादविस्तारमेव च ।
चतुष्पादसमायुक्तं पादाग्रे चक्रसंयुतम् ॥ ५ ॥
पादतारसमं चक्रं(क्र)विस्तारं परिकीर्तितम् ।
अर्धैकद्व्यङ्गुलं वापि घनं युक्त्या प्रयोजयेत् ॥ ६ ॥
पादाग्रे सान्तरालं स्यात्कुर्यात्तिर्यक् च यन्त्रकम् ।
द्विमात्रं च त्रिमात्रं वा पर्यङ्कं(ङ्क)पट्टिकोदयम् ॥ ७ ॥
तद्द्वयं विस्तृतं चैव चाग्रं वामा(पादा)ग्रकर्णयुक् ।
परितः पट्टिकामध्ये परितः छिद्रं योजयेत् ॥ ८ ॥
कार्पासं रज्जु वेणुं च तालं च शणवल्कलैः ।
पट्टिकाश्च त(कर्योर्ध्वं)योर्मध्ये दीर्घदीर्घं तु योजयेत् ॥ ९ ॥
पट्टिकां परितो बाह्ये वृत्तकं परिकल्पयेत् ।
एकं वाथ द्वयं वापि क्षेप्यं बहुधान्वितम् ॥ १० ॥
वृत्ताकृतीष्टपादानां युक्त्या वर्णेन लेपयेत् ।
गवाक्षाकारं युक्त्या च पट्टिकोर्ध्वे समन्ततः ॥ ११ ॥