मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 304, कुल 856 में से
संदर्भ में पढ़ें३९] द्वारमानविधानम् २६६
एवं तु मध्यहर्म्ये तु मुख्यं(ख्य)द्वारोदयं भवेत् ।
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ १२ ॥ 24
सार्धवेदकरान्तं स्यात्कन्यसादि नवोदयम् ।
मुख्यद्वारमिति प्रोक्तं मुख्यहर्म्ये तु योजयेत् ॥ १३ ॥
सप्तविंशोदयं ह्येवं तदर्धं विस्तृतं भवेत् ।
एवं जातिवशात्प्रोक्तं छन्दादीनां प्रवक्ष्यते ॥ १४ ॥ 28
पञ्चविंशाङ्गुला(लम)रभ्य द्व्यङ्गुलविवर्धनात् ।
त्रयोविंशशतान्तं स्याच्छन्दद्वारविशालकम् ॥ १५ ॥
एकविंशाङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ।
एकविंशं शतान्तं स्याद्विकल्पद्वारविस्तृतम् ॥ १६ ॥ 32
नवपञ्चत्वङ्गुला(लमा)रभ्य द्व्यङ्गुलविवर्धनात् ।
एकपञ्चत्वङ्गुलाधिक्यं शतान्तमाभासविस्तृतम् ॥ १७ ॥
विस्ताराद् द्विगुणोत्सेधं सामान्यमिति कथ्यते ।
द्विगुणात्पादमाधिक्यमर्धाधिकमथापि वा ॥ १८ ॥ 36
तदुत्सेधं नवांशं स्यात्पञ्चाशद्(त्त्वांशं) द्वारविस्तृतम् ।
आयादिकर्मषड्वर्गप्रवाहं(ष्टो) वक्ष्यतेऽधुना ॥ १९ ॥
जातिद्वारोदये सर्वेषा(र्वेसिना)यादिसंग्रहं भवेत् ।
छन्दादीनां तु सर्वेषां तारे चायादिसंग्रहम् ॥ २० ॥ 40
वृद्धिर्हान्यादिसर्वेषां प्रासादस्यांक्तवद् भवेत् ।
कन्यसे कन्यसा मानं मध्यमे मध्यमं तथा ॥ २१ ॥
मुख्ये मुख्यं तु मानं स्यात्कुर्याद् द्वारं शुभावहम् ।
हीनाधिकमानं चेत् श्रे(ष्ठे)ष्ठकन्यसमानकम् ॥ २२ ॥ 44
तद्द्वयोर्मध्यमं चोक्तं मध्यमे तद्द्वयं तु वा ।
सर्वेषामपि वर्णानां सर्वसंपद्विनाशनम् ॥ २३ ॥
शान्तिकादि यथाहर्म्यं द्वारं तच्छान्तिकादिकम् ।
कुर्यादारोग्यमायुष्यं भुक्तिमुक्तिफलप्रदम् ॥ २४ ॥ 48
विपरीते नृपादीनां विपत्यं(त्तिं) नित्यमावहेत् ।
द्वारमानमिति प्रोक्तं पादादीन्वक्ष्यतेऽधुना ॥ २५ ॥