मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 300, कुल 856 में से
संदर्भ में पढ़ेंद्वारस्थानविधानम्
द्वारस्थानस्य विन्यासं लक्षणं वक्ष्यतेऽधुना ।
देवानां भूसुरादीनां वर्णानां च गृहे गृहे ॥ १ ॥
देवा(भूपा)नां हर्म्यके सर्वे(र्वस्मिन्) प्राकारे मण्डपे तथा ।
चतुर्दिक्षु चतुर्द्वारं चोपद्वारं यथेष्टकम् ॥ २ ॥
यथान्तरालदेशे तु मध्ये द्वारं प्रकल्पयेत् ।
भित्तिमध्ये यथाकुर्यात्तत्र दोषो न विद्यते ॥ ३ ॥
प्रच्छादनं यथाहर्म्ये द्वारं कुर्यात्तथैशके ।
जलद्वारं यथासारं(लं) निम्नदेशे प्रकल्पयेत् ॥ ४ ॥
दक्षिणे च कवाटे तु द्वारं कुर्यात्तु मुख्यके ।
तिर्यक्मध्ये तु सूत्रः(त्रं) स्यादधोदेशे प्रकल्पयेत् ॥ ५ ॥
देवानां च मनुष्याणां महाद्वारं कवाटके ।
द्वाराणां तु यथामुख्ये युक्त्या सोपानसंयुतम् ॥ ६ ॥
एवं तु देवहर्म्यादिद्वारं कुर्याद् विचक्षणः ।
नराणां च गृहे सर्वे द्वारस्थानं तु वक्ष्यते ॥ ७ ॥
गृहायामे विशाले तु नन्दनन्दपदं भवेत् ।
पूर्वद्वारं च हर्म्याणां महाद्वारं महेन्द्रके ॥ ८ ॥
अथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ।
ईशे वाथ पर्जन्ये चादिते(त्यै) चोदिते तथा ॥ ९ ॥
38