सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 294, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 294

[Page Header]
३६] गृहमानस्थानविधानम् २४६

[Main Text]
रुद्ररुद्रजये वापि कन्यकारालयं भवेत् ।
सावित्रे च सवित्रे वा पुत्राणां चैव वासकम् ॥ २६ ॥ 52
मृगे च सर्वजातीनां विद्याभ्यासार्थमण्डपम् ।
तस्य बाह्यप्रदेशे तु तैलाभ्यङ्गार्थमण्डपम् ॥ २७ ॥
अन्त्ये चावरणे वैशे वास्थानमण्डपं भवेत् ।
सोमे चैव विशाला(लासा)र्धं मण्डपं कल्पयेत्ततः ॥ २८ ॥ 56
मृगे वा मुख्यके वापि विलासी(सि)नां तदालयम् ।
पावके पूषके वाथ सत्यके वा महेन्द्रके ॥ २९ ॥
सखीनां च गृहं कुर्यात्तत्रैवानुचरालयम् ।
द्वारस्य दक्षिणे पार्श्वे रक्षकरालयं भवेत् ॥ ३० ॥ 60
तत्रैव परिवारार्थं योधकानां तथालयम् ।
गृहक्षते यमे चैव महिषा(ष्या)धालयं भवेत् ॥ ३१ ॥
गन्धर्वे भृङ्गराजे चन्द्रदृष्टानास्त(र्ना च) तदालयम् ।
वृषे वा नैऋते वापि दिनादीनां गृहं भवेत् ॥ ३२ ॥ 64
वरुणे पुष्पदन्ते वा युवराजगृहं भवेत् ।
महेन्द्रे पुष्पदन्ते वा मुख्ये वाथ गृहक्षते ॥ ३३ ॥
सर्वषामपि वर्णानां द्वारं कुर्याद् विशेषतः ।
भूपानां मुख्यके द्वारं विना चोक्तं पुरातनैः ॥ ३४ ॥ 68
पावके वानिले वापि धान्यकर्शनमण्डपम् ।
नागे वा मुख्यके वापि धान्यागारं तु कल्पयेत् ॥ ३५ ॥
शोषे वा चासुरे वापि पुष्पमण्डपं संस्थितम् ।
चतुर्दिक्षु चतुष्कोणे सोपाया(न)स्थानमीरितम् ॥ ३६ ॥ 72
वायवे चाथ भल्लाटे नागे वा सर्वहर्म्यके ।
कुर्यान्नृत्ताङ्गनानां च नृत्तयोग्यं तु मण्डपम् ॥ ३७ ॥
रोगस्य च पदे चैव कुक्कुटावासयोग्यकम् ।
दौवारिके च सुग्रीवे मेषवासं च कारयेत् ॥ ३८ ॥ 76
एकं वाथ द्विसालं वा त्रिसालं वार्थ(तुर्य)भित्तिकम् ।
भूपानां पञ्चसालान्तं द्वित्रिसालमथापि वा ॥ ३९ ॥