सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 286, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 286

३५] शालाविधानम् २५१
कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं वासं वासोपरि न्यसेत् ॥ १२४ ॥ 248
एतत्तु मौलिकं प्रोक्तं देवतानां च योग्यकम् ।
तदेव कोणे चाम्ये तु वासमध्ये तु मण्डपम् ॥ १२५ ॥
एवं तु चक्रवर्ती(र्त्ति)नां कुर्यादालयं विदुः ।
एवं तु मौलिकं प्रोक्तं वक्ष्यते चतुरालयम् ॥ १२६ ॥ 252
विस्तारे दशभागे(गं) तु चायामे द्वादशांशकम् ।
द्विचतुर्भाग(गं) तन्मध्ये विस्तारायामतोऽङ्गणम् ॥ १२७ ॥
तद्बहिश्श्रावृतांशेन नन्द्यावर्तं चालिन्दकम् ।
तद्बहिश्च चतुःशाला पूर्व्वादिकमान्न्यसेत् ॥ १२८ ॥ 256
प्रागुदक्दक्षिणायामं दक्षिणे च ललाटकम् ।
याम्ये प्राक्प्रत्यगायामं पश्चिमे तु ललाटकम् ॥ १२९ ॥
पश्चिमे याम्यु(म्यो)दक्दीर्घं तद्वक्रं च तथोत्तरे ।
उदक् प्राक् पश्चिमे दीर्घं तस्य नेत्रं तु पूर्वके ॥ १३० ॥ 260
तत्तच्छालाविशाले तु तदंशेन गुणांशकम् ।
पूर्वे च पश्चिमे शाला तत्तद्दीर्घं(दैर्घ्यं) षडंशकम् ॥ १३१ ॥
दक्षिणे चोत्तरे शाला चाष्टांशं च तथा(स्या)यतम् ।
एवमेतच्चतुःशाला दण्डकाकृतिसंयुतम् ॥ १३२ ॥ 264
तद्बहिः परितो वारं चैकद्व्यंशेन मे(चै)व च ।
एकद्वित्रिद्वियोगं वा नेत्रविस्तारनिर्गमम् ॥ १३३ ॥
तत्तच्छाला द्विनेत्रं(त्रा) स्याद्बहिर्नेत्रैकनिर्गमम् ।
चतुर्नेत्रं बहिः पश्येत्तस्मादेवं चतुर्मुखम् ॥ १३४ ॥ 268
अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम् ।
एकानेकतलोपेतं सर्वालङ्कारसंयुतम् ॥ १३५ ॥
एवं चतुर्मुखं प्रोक्तं नन्द्यावर्ताकृतिर्भवेत् ।
द्वादशांश(यं) विशाले तु मनुभागं तथायतम् ॥ १३६ ॥ 272
चतुःषड्भागविस्तारमा(रा)यामं [च] मध्यमाङ्गणम् ।
तद्बहिश्श्रावृतांशेन पूर्ववत्तदलिन्दकम् ॥ १३७ ॥