सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 281, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 281

२४६ मानमारे [अध्यायः
एकद्वि(द्वां)शेन वासं स्याद्यथामूलं तु योजयेत् ।
अथवा द्विद्विभागेन वासं तद्वंशमूलके ॥ ५४ ॥ 108
वंशाग्रे रङ्गसंयुक्तं तत्पुरे(रोऽ)लिन्दं भागतः ।
अथवा मध्ये प्रतिष्ठाने ल(तू)क्तवासद्वयं न्यसेत् ॥ ५५ ॥
अन्तर्वासं बहिर्वासं द्वार(रं) मध्यं(ध्ये) तु वामके ।
अथवा चायताध्र्धेन मध्ये कुड्यं च कल्पयेत् ॥ ५६ ॥ 112
द्वारं तत्कुड्यपार्थ्वे तु वासमेत(कं) द्वयं भवेत् ।
एतत्तु दण्डकं प्रोक्तं शे' प्रागुक्तवन्नयेत् ॥ ५७ ॥
सर्वेषा(र्वासा)मपि जातीनां सर्वकामार्थयोग्यकम् ।
द्विचतुर्भागविस्तारमा(रा)यामं [च] तत्प्रकल्पयेत् ॥ ५८ ॥ 116
मुखशाला विशाला च चतुर्भागं तथायतम् ।
पुरतोऽलिन्द्र(न्द)मेकांशं भित्तिं कुर्यात्समन्ततः ॥ ५९ ॥
मूलाग्रे द्विद्विभागेन वासरङ्गं च कल्पयेत् ।
अथवा चैकद्विभागेन वास(सं) वंशाग्रमूलयोः ॥ ६० ॥ 120
कुर्यात्तु मध्यमे रङ्गं पृष्ठे पार्श्वे च भित्तिकम् ।
पूर्वे च स्तम्भसंयुक्तं मध्ये स्तम्भान्विवर्जयेत् ॥ ६१ ॥
परितो द्वारमेकांशं दण्डकं परिकीर्तितम् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वजात्यार्हकं भवेत् ॥ ६२ ॥ 124
चतुःपञ्चभागविस्तारं आ(रा)यामं [च] तत्प्रकल्पयेत् ।
मध्ये च द्विचतुर्भागं शाला [या] विस्तारमायतम् ॥ ६३ ॥
एकद्विद्विभागं वा(द्वि) वासं वा चैकवासयुक् ।
वंशमूलाग्रयोर्वासं वंशमूलैकवासकम् ॥ ६४ ॥ 128
तद्बहिः पुरतोऽलिन्दमेकभागेन कारयेत् ।
तद्बहिः परितः कुड्यं युक्तं वाङ्घ्रियुतं तु वा ॥ ६५ ॥
तद्बहिर्भित्तियुक्तं चेत्परितोऽशेनालिन्दकम् ।
एकद्वि(द्वां)शेन भद्रं स्यान्निर्गमं विस्तृतं भवेत् ॥ ६६ ॥ 132
चतुर्दिक्क(क्षु) भद्रसंयुक्तं द्वितलाटं तु पूर्ववत् ।
द्वितलं कार्यहर्म्यादि प्रासादवदलङ्कृतम् ॥ ६७ ॥