मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 280, कुल 856 में से
संदर्भ में पढ़ें[३५] शालाविधानम् २४५
मण्डलेशादिभूपानां दण्डकादिस्वस्तिकान्तकम् ।
केचित्त्रिविधमौलीनां सर्वशाला च योग्यकम् (का) ॥ ४० ॥ 80
दण्डकादिक्रमात् शा(च्छा)लाविन्यासं वक्ष्यतेऽधुना ।
पूर्वे च पश्चिमे शाला प्रत्यक् प्रागालयं तु वा ॥ ४१ ॥
उत्तरे याम्यशालायां सौम्यशालां (स्यालयं) च दक्षिणे ।
अतश्चाथ चतुर्दिक्षु तत्तच्छालां प्रकारयेत् ॥ ४२ ॥ 84
पूर्वशाला च ए(तु चै)कं च तद्द्वारं पश्चिमे भवेत् ।
दण्डकं दक्षिणे शाला तद्द्वारं चोत्तरे(रस्यां) दिशि ॥ ४३ ॥
एकशाला यथाप्रत्यक् तद्द्वारं प्राग्दिशस् (दिशि) तथा ।
उदक् दण्डकशालानां कुर्याद् द्वारं तु दक्षिणे ॥ ४४ ॥ 88
विस्तारमेकभागं वा चेष्टभागा(गमा)यते(तं) तथा ।
यथेष्टदेशे तत्कुर्यात् शा(च्छा)लानिन्द्र(न्द)मुदीरितम् ॥ ४५ ॥
इष्टदीर्घितपादं स्यात्कुड्य(ढ्यं) पादसमन्वितम् ।
पुरतः पादयुक्तं वा पृष्ठे कुड्यं प्रकारयेत् ॥ ४६ ॥ 92
प्राकारान्तर्बहिर्वापि वेदिकाद्यै(दिभि)रलङ्कृतम् ।
एतत्तु दण्डकं प्रोक्तं प्राकारादिवमाय(समायु)तम् ॥ ४७ ॥
विस्तारे चैकभागेन त्रिभक्त्यायाममीरितम् ।
ललाटे द्वितय(ल)स्योर्ध्वं दण्डखण्डितवद् भवेत् ॥ ४८ ॥ 96
पण्डशालाख्यकं प्रोक्तमेतत्सर्वजनार्हकम् ।
तत्पुरे(रोऽ)लिन्द्र(न्द)संयुक्तं भिन्दशाला प्रकीर्तितम् (ता) ॥ ४९ ॥
विस्तारे द्व्यंशकं कृत्वायामे चैवं त्रिभागिकम् ।
मूले शाला विशालं (ला) स्यात्पुरतो वारमंशकम् ॥ ५० ॥ 100
मुखशालावि(द्वि)नेत्रे (त्रा) च वासमेकैकभागिकम् ।
परितो वारमेकांशं द्विललाटं तु पूर्ववत् ॥ ५१ ॥
मध्ये द्वारं तु संयुक्तं मुखे चैकतलान्वितम् ।
एवं तु देवतायोग्यं दण्डकान्तमुदीरितम् ॥ ५२ ॥ 104
द्विचतुर्भागविस्तारमा(रा)यामं तत्प्रकल्पयेत् ।
शालाविशालतांशेन तत्पूर्वेऽलिन्द्र(न्द)मंशकम् ॥ ५३ ॥