मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 275, कुल 856 में से
संदर्भ में पढ़ें२४० मानमारे [अध्यायः
तस्मादेव द्विभागेन निर्गमं भद्रविस्तृतम् ।
मण्डपे वंशमूलाग्रे त्रिभागं भद्रविशालकम् ॥ २६४ ॥ 528
निर्गमं च द्विभागं स्याद् भद्रावृतवारकम् ।
मण्डपे चोर्ध्वकूटं स्यात् शा(च्छा)लाकारं तु योजयेत् ॥ २६५ ॥
अष्टवक्त्रसमायुक्तं कर्णेषु कर्करीकृतम् ।
मध्यसूत्रं तु(तस्य) वामे तु द्वारं कुर्याद् विचक्षणः ॥ २६६ ॥ 532
श्रीविशालमिति प्रोक्तं महिष्यावासमण्डपम् ।
चतुःषड्भागविस्तारं आ(रा)यामं [च] मण्डपं भवेत् ॥ २६७ ॥
द्विद्विभागेन संयुक्तं तन्मध्ये चाङ्गणं भवेत् ।
द्विचुतुर्भागविस्तारं वासमायाममीरितम् ॥ २६८ ॥ 536
तत्पुरे पृष्ठभागान्तं चैकद्वांशेन कारयेत् ।
तद्वहिर्द्वारमेकेन परितः कूटाकृतिस्तथा ॥ २६९ ॥
वंशमूलाग्रयोर्वासं त[द्]द्वारं वासमध्यमे ।
मण्डपे सूत्रमध्यं तु (मध्यसूत्रस्य) वामे द्वारं तथायते ॥ २७० ॥ 540
एवं सोमार्कनामस्य(स्यात्) वैश्यानां च (ब्राह्मणानां) पचनालयम् ।
षडेव(तच्च) विस्तारदीर्घे(दैर्घ्ये)षु द्विद्विभागेन वर्धनात् ॥ २७१ ॥
अन्यत् क्षत्रियसर्वेषां युगभागेन मण्डपम् ।
विस्तारं द्विगुणान्तं स्याद् द्विद्विभागेन वर्धनात् ॥ २७२ ॥ 544
यथा तद्विनियोगार्थं मण्डपं वैश्यशूद्रयोः ।
तत्तच्चित्तवशात्सर्वमष्टादिग्भागभित्तिकम् ॥ २७३ ॥
देवानां भूसुराणां च मण्डपं जातिरूपकम् ।
भूपानां मण्डपे(पं) सर्वे(र्वं) छन्दरूपमितीरितम् ॥ २७४ ॥ 548
वैश्यकानां तु सर्वेषां विकल्पं चेति कथ्यते ।
शूद्राणां मण्डपं सर्वमाभासमिति कीर्तितम् ॥ २७५ ॥
केचिद् भद्रविशेषेण जातिरुक्ता पुरातनैः ।
द्विवक्त्रं दण्डकं प्रोक्तं त्रिवक्त्रं स्वस्तिकं तथा ॥ २७६ ॥ 552
त्रिवक्त्रं लाङ्गलाकारं नन्द्यावर्तं चतुर्मुखम् ।
षण्मुखं मौलिकं प्रोक्तं मण्डपं चाष्टवक्त्रयुक् ॥ २७७ ॥