सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 268, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 268

३४] मण्डपविधानम् २३३
पृष्ठे च पार्श्वयोः कुड्यं पुरतो पादसंमि(यु)तम् ।
तन्मुखे द्वित्रिभागेन निर्गमं चासनसंयुतम् ॥ १६६ ॥ ३३२
कर्णै लाङ्गलभित्तिः स्याद् भ्रमरावृतबाह्यके ।
एकांशेनाङ्घ्रिसंयुक्तं पुर(रः) पार्श्वे तु (च) भद्रकम् ॥ १६७ ॥
धनाधिपमण्डपं स्याद् देवभूसुरयोग्यकम् ।
तदेव मध्याङ्गणसंयुक्तं चौरार्थं द्विजभूपतेः ॥ १६८ ॥ ३३६
तदेव भागाधिकायाममिष्टदिग्गतभित्तिकम् ।
भूपतीनां च वैश्यानां कोशरत्नादियोग्यकम् ॥ १६९ ॥
तदेवाधिकमायामं मध्यभागाङ्गणं भवेत् ।
एकभागावृतावासमिष्टदिग्गतभित्तिकम् ॥ १७० ॥ ३४०
आयाममध्यसूत्रं तु(तस्य) वामे द्वारं प्रकल्पयेत् ।
कर्णै(र्णे ए)ककर्करीभद्रं स्याद् भ्रमरांशेन पूर्ववत् ॥ १७१ ॥
शूद्राणां च इ(चे)ति प्रोक्तं धान्यागारमथ नामकम् ।
चतुरश्रं विस्तारं स्यात् ए(दे)कभागाधिकायतम् ॥ १७२ ॥ ३४४
पञ्चांश द्वांशकेनैव मण्डपं परिकल्पयेत् ।
तन्मुखेव(खैक)त्रिभागेन निर्गमं भद्रविस्तृतम् ॥ १७३ ॥
तत्पुरे तु द्विपार्श्वे वा प्रपां चैकेन कारयेत् ।
भद्रान्तं कुड्यसंयुक्तं मण्डपं पृष्ठपार्श्वयोः ॥ १७४ ॥ ३४८
देवतानां च मौनार्थं भूषाख्यं तु मण्डपम् ।
तदेकभागाधिकायामं विस्तारं पूर्ववद् भवेत् ॥ १७५ ॥
तद्भागद्विभागेन विस्तारं मण्डपं भवेत् ।
द्वित्रिभागाङ्गणं पूर्वं ए(चै)कभागं खलूरकम् ॥ १७६ ॥ ३५२
मण्डपं तु (पस्य) विना दीर्घे (दैर्घ्ये) द्वारं कुर्याद् विचक्षणः ।
भूषाख्यं च विप्राणां योग्यं पुंसवनार्थकम् ॥ १७७ ॥
तदेव भागाधिकायामं विस्तारं पूर्ववद् भवेत् ।
त्रिचतुर्भागमायामं मण्डपं परितो भवेत् ॥ १७८ ॥ ३५६
एवं सुभूषाख्यं स्याच्छ्लेषं पूर्वोक्तवन्नयेत् ।
भूसुरादित्रयाणां चोपनयनादियोग्यकम् ॥ १७९ ॥
29