सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

कौमारिलात्मा 141
शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तत्वमात्मनः।
नित्यत्वं चेष्यते शेषं शरीरादि विनश्यति ॥
नित्यः कर्तृत्वभोक्तृत्वे प्रतिपन्नोऽपि सन् यदा ।
न कर्मफलसम्बन्धं भोगकालेऽवबुद्ध्यते ॥
मया तत्तु कृतं कर्म तस्येदं भुज्यते फलम् ।
शुभाशुभं मयैवेति तदा कोऽस्य रसो भवेत् ॥
कुर्वन्नप्यशुभं कर्म तेनैवं चिन्तयेन्नरः ।
न स्मरिष्यामि भोगेऽहमिति नैतद्विवर्जयेत् ॥
तत्र नित्यत्वपक्षेऽपि कृतनाशाकृतागमौ ।
फलतस्तुल्यरूपौ चेत् वृथा तत्प्रतिपादनम् ॥
2 नैष दोषः न भोगे हि स्मृतिर्न उपयुज्यते ।
न प्रवृत्तिर्निवृत्तिर्वा भोगकाले स्मृतेर्भवेत् ॥
प्राक्प्रवृत्तेस्तु साऽस्त्येव विदुषां शास्त्रतः स्फुटा ।
पश्चादपिच शास्त्रज्ञाः विमृशन्त्येव केचन ॥
अपरामृश्यमानेऽपि स्वापकाले सुखाश्रये ।
संभोगे मृदुशय्यादौ प्राक्प्रवृत्तिश्च दृश्यते ॥
3 तत्र नित्यविभुत्वाभ्यामात्मानो निष्क्रिया यदि
सुखदुःखाविकार्याश्च कीदृशी कर्तृभोक्तृता ॥
अथ कर्तृत्ववेलायां दुःखादेश्चापि जन्मनि ।
प्राग्रूपादन्यथात्वं स्यात् नित्यताऽस्य विरुद्ध्यते

42 मानमेयरहस्यश्लोकवार्तिके
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ।
विक्रियामात्रवाचित्वे, न ह्युच्छेदोऽस्य तावता ॥
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥
सुखदुःखायवस्थाश्च गच्छन्नपि नरो मम ।
चैतन्यद्रव्यसत्तादिरूपं नैव विमुञ्चति ॥
दुःखिनः सुख्यवस्थायां नश्येयुस्सर्व एव ते ।
दुःखित्वं चानुवर्तेत विनाशे विक्रियात्मके ॥
तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः ।
पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥
4 नैरात्म्यवादपक्षे तु पूर्वमेवावबुद्ध्यते ।
मद्विनाशात्फलं न स्यान्मत्तोऽन्यस्याथवा भवेत् ।
इति नैव प्रवृत्तिः स्यात् नच वेदप्रमाणता ।
जन्मान्तरेऽभ्युपेतेऽपि ज्ञानमात्रात्मवादिनाम् ॥
ज्ञानानां क्षणिकत्वाद्धि कर्तृभोक्त्रन्यता भवेत् ।
निष्क्रियत्वाविभुत्वाभ्यां नच देहान्तराश्रितिः ॥
कर्ता स एव सन्तानः ननु भोक्ता स एव नः ।
विज्ञानक्षणभेदस्तु त्वदवस्थान्तरैस्समः ॥
कर्तृत्वमेव दुस्साधं दीर्घकालेषु कर्मसु ।
सत्सु ज्ञानसहस्रेषु कुलकल्पोपमं हि तत् ॥

कौमारिलात्मा 143
व्यतिरिक्तो हि संतानो यदि नाभ्युपगम्यते ।
संतानिनामनित्यत्वात् कर्ता कश्चिन्न लभ्यते ॥
तस्मादत्यन्तभेदो वा कथंचिद्भिन्नताऽपिवा ।
संतानस्येत्ययं चात्मा स्याद्वैशेषिकसांख्ययोः ॥
नन्वन्यत्वं विदन्तोऽपि पुत्रादिफलसिद्धये ।
प्रवर्तन्ते यथा तद्वत् ज्ञानसंतानिनोऽपि नः ॥
अन्यत्वे च समानेऽपि यथा वंशान्तरोद्भवाः ।
न लभन्ते फलं तद्वत् संतानान्तरजाः क्षणाः ॥
न तावद्बुद्धिरत्रैवं, अपिचात्मफलेच्छया ।
पुत्रादिभरणे वृत्तिः स्यात्तदप्यत्र नास्ति ते ॥
भरणं यदपत्यानां तिर्यगादिषु दृश्यते ।
अज्ञानं शरणं तत्र प्राज्ञानां तु न युज्यते ॥
नच त्वमपि कृत्येषु निरन्वयविनाशतः ।
मत्सन्तानसमृद्ध्यर्थमिति मत्वा प्रवर्तसे ॥
5 देहान्तरे च संचारो बुद्धीनां नोपपद्यते ।
पूर्वदेहाद्बहिर्भावः नच तासां प्रतीयते ॥
वायुना प्रेर्यमाणं हि ज्वालाद्यन्यत्र संचरेत् ।
बुद्धेः कारणदेशात्तु प्रेरणं नास्ति केनचित् ॥
अमूर्तत्वात्स्वयं नासावुत्प्लुत्यान्यत्र गच्छति ।
अन्तराभवदेहस्तु निषिद्धो विन्ध्यवासिना ॥

44 मानमेयरहस्यश्लोकवार्तिके
सहसा जायते तच्च सहसैव विनश्यति ।
सूक्ष्मरूपादियुक्तं चेत् उत्प्रेक्षामात्रमेव तत् ॥
कललादिषु विज्ञानमस्तीत्येतच्च साहसम् ।
असंजातेन्द्रियत्वाद्धि न तत्रार्थोऽवगम्यते ॥
यदि भूतेन्द्रियाधारा ज्ञानशक्तिः भवेत्ततः ।
तच्चैतन्यं प्रसज्येत नच जन्मान्तरं भवेत् ॥
परिणामविवेकाद्यैः शक्त्यभिव्यक्त्यनुग्रहात् ।
तेभ्य एव भवेद्बुद्धिः न बुद्ध्यन्तरपूर्विका ॥
अथाधारविनिर्मुक्ता शक्तिस्स्यात्कललादिषु ।
पश्चाद्विज्ञानसिद्ध्यर्थं आत्मा शक्त्यभिधो भवेत्
6 ज्ञानशक्तिस्वभावोऽतो नित्यस्सर्वगतः पुमान् ।
देहान्तरक्षमः कल्प्यः सोऽगच्छन्नेव योक्ष्यते ॥
शक्त्याधारप्रक्लृप्तौ वा नात्मनोऽन्यः प्रकल्प्यते ।
ज्वालाबुद्बुदवद्वृत्तिः नचाधाराद्विना धियाम् ॥
तस्माद्यथाऽऽकृतौ शास्त्रं प्रवृत्तं व्यक्तिमाश्रयेत्
तथा पुंसि प्रवृत्तस्य भूतेन्द्रियसमाश्रयः ॥
7 कृतं भूतेन्द्रियाणां च चैतन्यप्रतिषेधनम् ।
समस्तव्यस्तसंघातविवेकपरिणामिनाम् ॥
सांख्यादिभिरशुद्धत्वात् संघातात्सन्निवेशतः ।
मृतवच्च शरीरत्वात् भूतत्वाद्वाह्यभूतवत् ॥

स्मरणप्रत्यभिज्ञाने भवेतां वासनावशात् ।
अन्यार्थविषये ज्ञातुः प्रत्यभिज्ञा तु दुर्लभा ॥
अहं वेद्मीत्यहंबुद्धिः ज्ञातारमधिगच्छति ।
तत्र स्यात् ज्ञातृ विज्ञानं तदाधारोऽथवा पुमान् ॥
गुरुः स्थूलः कृशो वाऽहं इति देहेऽपि या मतिः ।
भ्रान्तिस्सा भेदरूपं हि गुरु मे तदितीक्ष्यते ॥
ममात्मेति मतिर्भेदव्यपदेशेन याऽऽत्मनः ।
तत्रावस्थाऽऽत्मना भेदं ज्ञानस्याश्रित्य कल्पना ॥
वेदादेवात्मनास्तित्वं यो नाम प्रतिपद्यते ।
विरोधं वाऽऽत्मनो ब्रूयात्तं प्रति ब्राह्मणाभिधा ॥
अन्यथाऽनुपपत्तेश्च विधिनाऽऽत्मन्यपेक्षिते ।
अस्तित्वद्योतनादेतैः अर्थाक्षिप्तसमर्थनम् ॥
इत्यात्मवादसारांशः श्लोकवार्तिकशोधितः ।
अथापूर्वाधिकरणतन्त्रवार्तिकसंग्रहः ॥
7 अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः ।
तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुतेष्यते ॥
सर्वत्र कार्योपलब्धेरात्मा सर्वगतो मतः ।
तच्च कार्यमहंबुद्धिः सुखदुःखादिधीरपि ॥
ननु लिङ्गं तदेव स्याद्देशान्तरगतेरपि ।
आत्मा शरीरसंमिश्रः तैरेव सह संगमात् ॥
M.R. 19

46 मानमेयरहस्यश्लोकवार्तिके
तत्रतत्र सुखादीनि कार्याणि प्रतिपद्यते ।
युगपद्यदि सर्वत्र कार्यमात्मगतं भवेत् ॥
ततस्सर्वगतत्वं स्यात् पर्याये तु शरीरवत् ।
अन्यथा सर्वगतता शरीरस्यापि कथ्यताम् ॥
नैवं स्वतोऽप्यमूर्तत्वात् न मूर्तैर्मिश्रताऽऽत्मनः ।
ततश्च तैरसंश्लिष्टः न नेतुं शक्यते क्वचित् ॥
मूर्तानामपि सूक्ष्माणां चन्द्रदीपरवित्विषाम् ।
न मृत्पिण्डादिभिस्साकं मिश्रणं नयनं क्वचित् ॥
स्याद्वादिभिर्मता मूर्ता बद्धा जीवास्तथाऽपि ते ।
शरीरसंपर्कायत्तमूर्ततारहिताः पुनः ॥
ज्वालादीनां स्पर्शवत्त्वात् वायुना चोल्मुकादिना
युक्तं स्यान्नयनं वक्तुं तस्मात्सर्वगतः पुमान् ॥
8 असर्वगतपक्षे स्यात् जीवो देहादनिर्गतः ।
अणुश्शरीरमात्रो वा सर्वथाऽपि न युज्यते ॥
यद्यणुः कल्प्यते तत्र देहं न व्याप्नुयादसौ ।
ततश्च सर्वगात्रस्थसुखप्राप्त्याद्यसंभवः ॥
लघुसंचारयोगेन संभवो निष्प्रमाणकः ।
बह्वदृष्टं कल्पनीयं यथा स्यादवधार्यताम् ॥
सद्भावोऽवयवानां च तथा तेषामनन्तता ।
अश्लेषश्च विनाऽन्येन तद्भावेऽपि च नित्यता ॥

कौमारिलात्मा 147

अतिसंकोचविस्तारौ पुत्तिकाहस्तिदेहयोः ।
अन्तराभवसंचारः तज्ज्ञानाज्ञानकारणे ॥
यद्वियोजितमात्राणामङ्गानां स्फुरणं तु तत् ।
अभिघातप्रेरितेन वायुनेत्यवधार्यते ॥
दीपप्रभायास्संकोचविकासौ दर्शनान्मतौ ।
यद्वांशांरम्भनाशाभ्यामुपपत्तिस्तयोर्भवेत् ॥
अङ्गुष्ठमात्रः पुरुष इति ये च श्रुतिस्मृती ।
सूक्ष्मग्रहणयोग्यत्वतत्परे इति बुध्यताम् ॥
अङ्गुष्ठमात्रं पुरुषं निश्चकर्षेति यद्वचः ।
द्वैपायनीयं तदपि काव्यशोभानिबन्धनम् ॥
गीतादिषु हि तेनैव वर्णिताऽनेकरूपतः ।
सर्वत्र गतता तस्मात् आत्मानो विभवः स्थिताः
9 ननु चैवं व्योमवत्स्यात् ऐकात्म्यमिति चेन्न तत्
सुखदुःखव्यवस्थातो नानेति प्रथितं हि तत् ॥
जन्ममृत्याद्यनियमात् पुंसां च बहुतोदिता ।
सर्वे समानदेशास्स्युरस्पर्शा हि यतस्त्विमे ॥
चैतन्यमात्रात्मकत्वाद्यविभागनिबन्धनः ।
ऐकात्म्यव्यवहारः स्यात् ततश्चोपनिषत्स्वपि ॥
यथा शरीरमात्रेऽपि मातृगर्भात्मवर्तिनाम् ।
सुखादीनां व्यवस्थैवं सर्वत्रैषा भविष्यति ॥

148 मानमेयरहस्यश्लोकवार्तिके
देशव्याप्त्या यदीष्येत सुखादेरुपभोग्यता ।
ततो दोषः प्रसज्येत योग्यभोगे त्वदुष्टता ॥
10 चलनादिक्रियाहीनोऽप्यसौ कर्तृत्वमात्रतः ।
देशान्तरप्रापणादिक्रियार्होऽतो न निष्क्रियः ॥
कर्तैव चाश्रयः तस्य कर्माप्यत्रैव च स्थितम् ।
अत एव स्थितं ह्येतत्कर्तृत्वं सर्वकर्मसु ॥
यदि स्वसमवैतैव शक्तिरिष्येत कर्मणाम् ।
तद्विनाशे ततो न स्यात्कर्तृस्था तु न नश्यति ।
कथमन्यत्रान्यशक्तिः समवैतीति चेत् शृणु ।
अत्यन्तभेदाभावो हि यागदानक्रियात्मनोः ॥
शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते ।
तद्गतैवाभ्युपेतव्या स्वाश्रयाऽन्याश्रयाऽपिवा ॥
तादर्थ्येन हि शेषत्वं नाश्रयाश्रयिभावतः ।
राजार्थौपयिकं नित्यमुष्ट्रो वहति कुङ्कुमम् ॥
आत्माश्रिताङ्गपूर्वाणामेकार्थसमवायतः ।
प्रधानैस्सह संबन्धात् न तेषां पुरुषार्थता ॥
अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते ।
ततस्तत्सिद्धये भूयस्स्यादपूर्वान्तरप्रमा ॥
प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि ।
अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ॥

प्राभाकरात्मा
11 आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् ।
वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥
नैकरूपैव भावानामभिव्यक्तिः प्रतीयते ।
आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥
सर्वावाप्तिसमर्थो वा प्रकृत्याऽऽत्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥
एवं विभुत्वं कर्तृत्वं भोक्तृत्वं तत्समर्थता ।
भाट्टसिद्धान्तानुरोधादात्मनामिह दर्शितम् ॥
(34) प्राभाकरात्मा.
1 आत्मतत्त्वं प्रकरणपञ्चिकायां निरूपितम् ।
श्रीमच्छाालिकनाथेन तत्त्वालोकेऽस्य संग्रहः ॥
बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रं अर्थवित्तिषु भासते ॥
भोक्ता च भोगायतनं भोगसाधनमेव च ।
भोग्यं भुक्तिरिति ह्यत्र भोक्ता त्वात्मेति निश्चितः॥
शरीरं भोगायतनं इन्द्रियं भोगसाधनम् ।
भोग्यं सुखादिकं भुक्तिः वेदनेति च विश्रुता ॥
आसु पञ्चविधास्वर्थतत्त्वं परिसमाप्यते ।
जरायुजं चाण्डभवं स्वेदजं च त्रिधा मतम् ॥

150 मानमेयरहस्यश्लोकवार्तिके
उद्भिज्जं दैवमिति च द्विविधं तैर्न हीष्यते ।
इमशाने जायते वृक्ष इत्यादिस्त्वर्थवादगीः ॥
2 प्रकाशरूप एवात्मा न स्वयं स्वस्य गोचरः ।
न परोक्षो न चाध्यक्षोऽपरोक्ष इति निर्णयः ॥
अतश्च मोक्षे दृषदा तौल्यमापाद्यते परैः ।
संवित्तिफलभागिन्यप्यात्मनीष्टा न कर्मता ॥
गन्तृवत्, परगामित्वं फलस्यास्ति विशेषणम् ।
आत्मा विषयसंवित्तेर्गोचरः सर्वदा ततः ॥
संवित्त्युपायोपरमे सन्मात्रं स्वापवन्मतः ।
विशेषोऽभिमतः कैश्चिदात्मनां स्वापमोक्षयोः ॥
संवित्तिवत्स्वतस्सिद्धमात्मानमपरे विदुः ।
निरूपकत्वाश्रयत्वयुता विषयता हि सा ॥
प्रकाशैकस्वरूपत्वात् स्वतो वा परतोऽपि वा ।
प्रकाशांशानपेक्षत्वं केचिदत्र प्रचक्षते ॥
घटादयो ह्यप्रकाशस्वरूपाः तदपेक्षिणः ।
विषयव्यपदेश्यास्स्युः आत्मा सर्वविलक्षणः ॥
प्रकाशतत्त्वनिष्कर्षः वासनैकनिबन्धनः ।
सौगतानां रीतिरन्या तार्किकाणां विलक्षणा ॥
देहादिव्यतिरिक्तत्वयुक्तयः प्राक्प्रपञ्चिताः ।
न विशेषः विशेषांशस्त्वियानन्यत्र विस्तरः ॥

बादरायणात्मा 19
3 जयन्तन्यायमञ्जर्यां गुरूणामात्मनिर्णयः ।
कृतः तस्यापि सारांशसंक्षेपात्किंचिदुच्यते ॥
गुरूणामपरोक्षोऽसावात्मा चापरसाधनः ।
चितिशक्तिस्वभावश्च तस्यैषा विवृतिर्यथा ॥
आत्मा ज्ञानेन जन्येन न चकास्ति घटादिवत् ।
अपितु स्वत एवासौ संविद्वदवगम्यते ॥
अनेककारकाधीनाऽप्येषा संवित्करोति तम् ।
आत्मानमेव ज्ञातारं चित्स्वभावोऽतएव सः ॥
संवित्तयैव संवेद्या यथा संवित्तथैव च ।
स्याद्ग्राहकतयैवात्मा ग्राह्यः ग्राह्यतया न तु ॥
तयोः प्रकाशयोर्मध्ये परोक्षो ज्ञानलक्षणः ।
व्यापारो जायते तस्य फलं संवित्तिरिष्यते ॥
द्वैरूप्यचोदना यैषा कर्तृता कर्मतेति च ।
नात्मन्यस्मिन् पक्ष इति दृश्यते न्यायमञ्जरी ॥
अहंप्रत्ययकर्तृत्वेनैव सिद्धिरिहात्मनः ।
अहंप्रत्ययकर्मत्वेनैवेत्याहुः कुमारिलाः ॥
(35) बादरायणात्मा
1 यत्तु लोकायतः प्राह देहान्न व्यतिरिच्यते ।
आत्मेति तत्र प्रत्युक्तमाचार्यैर्बादरायणैः॥

152 मानमेयरहस्यश्लोकवार्तिके
एक आत्मन इत्यादिसूत्रेष्विति हि भाषितम् ।
श्रीशङ्करादिभिः यत्तत्सारांशोऽत्रावधार्यताम् ॥
यो मन्येतात्मधर्माणां देहभावे तु भावतः ।
शरीरधर्मतां सोऽसौ देहभावेऽप्यभावतः ॥
अतद्धर्मत्वमेवैषां किं न मन्येत बुद्धिमान् ।
अपिचैते देहधर्मवैलक्षण्यान्न देहगाः ॥
ये तु रूपादयो धर्माः यावद्देहं भवन्ति ते ।
प्राणचेष्टादयो न स्युः मृतावस्थे शरीरके ॥
देहधर्मश्च रूपादिः परैरप्युपलभ्यते ।
नत्वात्मधर्मश्चैतन्यस्मृत्यादिरिति भाव्यताम् ॥
किंच जीवति देहेऽस्मिन्त्येषां भावोऽवगम्यते ।
असत्यभावो निश्चेतुं तेषां नैव हि शक्यते ॥
कदाचित्पतितेऽप्यस्मिन् देहे देहान्तराश्रयात् ।
अनुवृत्तिर्भवेदात्मधर्माणामिति शङ्क्यते ॥
न निवर्तयितुं शक्या सहसा विपरीतधीः ।
इति संशयमात्रेण परपक्षो निषिद्ध्यते ॥
2 किंच भूतेभ्य उत्पत्तिमिच्छन् धीमन्निदर्शनः ।
किमात्मकं पुनरिदं चैतन्यं मन्यते भवान् ॥
नहि भूतचतुष्केभ्यः किंचित्त्वं विलक्षणम् ।
भवान् प्रत्येति येनैतज्जायेत मदशक्तिवत् ॥

बादरायणात्मा 153
तच्चानुभवनं भूतभौतिकानां मतं यदि ।
विषयत्वात्तर्हि तेषां न तद्धर्मत्वमश्नुते ॥
न ह्यग्निरुष्णः स्वात्मानं दहतीत्युपगम्यते ।
शिक्षितस्सन्न हि नटः स्वस्कन्धमधिरोक्ष्यति ॥
अतः क्रिया विरुद्धैषा स्वात्मनीति श्रुतं बुधैः ।
रूपादिभिः स्वस्वरूपं विषयीक्रियते न हि ॥
नह्येवं भूतधर्मेण सता चैतन्यवस्तुना ।
भूतभौतिकवस्तूनां विषयीकरणं भवेत् ॥
भूतभौतिकवस्तूनि बाह्यान्याध्यात्मिकानि च ।
तच्चैतन्येन विषयीक्रियन्त इति सम्मतम् ॥
अतो यथैवोपलब्धेः सद्भावोऽभ्युपगम्यते ।
व्यतिरेकोऽप्येवमस्याः विषयेभ्योऽभ्युपेयताम् ॥
उपलब्धिस্বরূপोऽसावात्मेत्यस्माभिरिष्यते ।
तस्मात्तथाविधो ह्यात्मा सिद्धो देहविलक्षणः ॥
उपलब्धेरैकरूप्यान्नित्यत्वमपिचात्मनः ।
अहं वस्त्विदमद्राक्षमिति प्रत्यभिसन्धितः ॥
स्मृतीच्छाद्युपपत्तेश्च विज्ञानं क्षणिकं न सः ।
3 युक्त्यन्तरं पुनरिदं वस्तुतस्त्ववधार्यताम् ॥
यथोपलब्धिर्भवति दीपादौ सति साधने ।
नैतावता दीपधर्मः सोपलब्धिर्भविष्यति ॥
M.R. 20

154 मानमेयरहस्यश्लोकवार्तिके
तथैव सति देहेऽस्मिन् साधने धीर्भविष्यति ।
न भविष्यत्यसति च न स्याद्देहगता ततः ॥
देहेनापि नचात्यन्तमुपयोगोऽत्र दृश्यते ।
निश्चेष्टेऽपिच देहेऽस्मिन् दृश्यन्ते स्वाप्रसंविदः ॥
तस्माद्देहातिरिक्तत्वमनवद्यं तथाऽस्तिता ।
इत्यात्मचिन्ता युक्तिस्था विज्ञेया बादरायणी ॥
चैत्रस्तारक्ष्वीं स्वप्ने तनुमास्थाय बुध्यते ।
मानुषीमात्मनः पश्यन् तनुं तदुभयानुगम् ॥
आत्मानमनुसंधत्ते स्वयं देहविलक्षणम् ।
सर्वलोकप्रसिद्धोऽयं प्रत्ययोऽप्यवमृश्यताम् ॥
(36) वेदान्तात्मा.
1 अथ सर्वार्थसिद्धयुक्तः वैदिकात्मविनिर्णयः ।
विलिख्यते सुनिष्पन्नः विस्तरोऽन्यत्र दृश्यताम् ॥
मनुष्योऽहं कृशः स्थूलः इत्यादिसार्वलौकिकः ।
अभेदप्रत्ययोऽह्यस्ति नीलो घट इतीदृशः ॥
मम देहोऽप्यहमिमं जानामीत्यादिभेदधीः ।
अपिह्यस्ति मम क्षेत्रमित्यादिप्रत्ययो यथा ॥
लोके भेदेऽप्यभेदेन प्रत्ययो दृश्यते यथा ।
सेयं ज्वाला तथाचायो दहतीत्यादिलक्षणः ॥

तथा भेदप्रत्ययोऽपि ह्यभेदेऽपिच दृश्यते ।
चन्द्रद्वयं घटमठाकाश इत्यादिलक्षणः ॥
बलाबलव्यवस्थायां कर्तव्यायां प्रसज्यते ।
सर्वत्राप्रामाण्यशङ्का यथा चैषाऽवधार्यताम् ॥
निर्वापितारोपितवत् ज्वालैक्यप्रत्ययस्थले ।
सादृश्यसाद्देश्यमुखदोषाणां संभवो यथा ॥
अयःपिण्डस्थलेऽन्योन्यव्यतिहारधियामपि ।
हेतुर्विलक्षणो योगः यथा स्यात्प्रकृते तथा ॥
साद्देश्यसंसर्गमुखदोषसद्भावशङ्कया ।
स्यादभेदप्रत्ययोऽप्रामाण्यशङ्काकलङ्कितः ॥
तथा भेदप्रत्ययोऽपि शिलापुत्रस्य देहवत् ।
राहोश्शिरोवदैक्यस्याग्रहणाद्वा भवेदिति ॥
तादृशाप्रामाण्यशङ्काकलङ्कान्न विमुच्यते ।
घटस्यात्मेत्यादिवत्तु ममात्मेत्यन्यथा भवेत् ॥
2 एवंच नित्यशास्त्रोत्थसंप्रदायानुसारतः ।
भेदधीः प्रबला नान्येत्याहुश्शास्त्रैकलोचनाः ॥
यथा चन्द्रे यथा सूर्ये परिमाणाल्पविभ्रमः ।
दिङ्मोहादिभ्रमश्चैव तलमालिन्यविभ्रमः ॥
एवंलक्षणकस्सर्वश्शास्त्रेणैव निवार्यते ।
तथा शास्त्रानुग्रहेण बलाबलविनिर्णयः ॥

156 मानमेयरहस्यश्लोकवार्त्तिके
ततः स्वतो वा युक्त्या वा योगदर्शनतोऽपिवा ।
आत्मनः सिद्धिरित्याहुः इति देहात्मसंग्रहः ॥
(37) आर्हतात्मा.
1 आर्हतानामात्मतत्त्वं प्रागेव सुनिरूपितम् ।
तदेवचात्माऽध्यायेऽस्मिन् अन्यूनत्वाय चिन्त्यते
देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः ।
स्वयंप्रकाशप्रत्यक्षसिद्ध आत्मेति निर्णयः ॥
आत्मा चैतन्यरूपस्स्यात्परिणामी करोति च ।
साक्षाद्भोक्ता स्वीयदेहसमानपरिमाणवान् ॥
प्रतिक्षेत्रं विभिन्नश्च विचित्रश्चाप्यनन्तकः ।
स च पौद्गलिकादृष्टसंयुतः पुरुषार्थभाक् ॥
आत्मतत्त्वं तु सहजचिद्रूपपरिणामवत् ।
आवृतिप्रक्षयादेषः सार्वज्ञ्यैकरसः स्वयम् ॥
ज्ञानाद्भिन्नो नचाभिन्नः भिन्नाभिन्नः कथंचन ।
ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥
उपादेयं परं ज्योतिरुपयोगैकलक्षणः ।
उपयोगः कर्मणैकीभूतस्यास्य विवेचनम् ॥
2 औदयश्चौपशमिकः क्षायिकः पारिणामिकः ।
एते जीवस्य चत्वारः भावाः पर्यायलक्षणाः ॥

आर्हतात्मा 157
स स्यादौदयिको भावः यः कर्मोदयलक्षणः ।
स चौपशमिको भावः यः कर्मोपशमात्मकः ॥
स एव क्षायिको भावः यस्स्यात् मोक्षपदाभिधः ।
स पारिणामिको भावः सहजः चित्स्वभावता ॥
समनस्कोऽमनस्कश्च स जीवो द्विविधो मतः ।
संज्ञिनस्समनस्काः स्युः अमनस्काः त्रसाः स्थिराः
गुणपर्यायवद्द्रव्यं तत्रस्थाः निर्गुणाः गुणाः ।
चैतन्यसुखदुःखाद्याः पर्यायगुणलक्षणाः ॥
3 सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ।
पूरयन्ति गलन्तीति पुद्गला इति निर्णयः ॥
धर्मः प्रवृत्तिहेतुः स्यादधर्मः स्थितिकारणम् ।
अधर्मे गलिते धर्मः स्यादूर्ध्वगतिसाधनम् ॥
आत्मनश्चलनं योगः तेन कर्म पुमानयम् ।
आदत्ते सलिलं विष्वक् तप्तायःपिण्डवत् सदा ॥
तदेव पौरुषं ज्योतिः इन्द्रियेभ्यस्स्रवत्सदा ।
स्पृशच्च विषयान् तद्धीरूपेण परिणाम्यदः ॥
स चास्रवः, तस्य धीरैः कर्तव्यस्संवरस्सदा ।
आस्रवस्स्रोतसो द्वारं संवृणोतीति संवरः ॥
इति मानमेयरहस्यश्लोकवार्तिके प्रमेयकाण्डे
प्रथमः परिच्छेदः

अथ प्रमेयकाण्ड द्वितीय परिच्छेद प्रारम्भः.
(38) धर्मधर्मिभाववादः.
1 अथ मीमांस्यते धर्मधर्मिभावे विदां मतम् ।
सर्वेषां च विवादानां प्रायशोऽत्रैव विश्रमः ॥
सदसत्कार्यवादो वा नित्यानित्यविकल्पना ।
क्षणास्थिरविवादश्च सृष्टिप्रळयकल्पना ॥
द्वैताद्वैतविवादश्च मोक्षवादोऽपि तादृशः ।
तदुपायविवादो वा वादेऽस्मिन् पर्यवस्यति ॥
अद्रव्यवादिनः केचित्केचिद्द्रव्यैकवादिनः ।
तदैक्यवादिनः केचित् केचित्तद्भेदवादिनः ॥
भेदाभेदं वदन्त्यन्ये केचित्सन्मात्रवादिनः ।
असन्मात्रविदः केचित् तेषां भावोऽवमृश्यताम् ।
2 स्पर्शादीन् जगतो धातून् पञ्च वैभाषिका विदुः
शब्दात्मनश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
स्पर्शाद्येकद्वित्रिचतुस्स्वभावानपरे विदुः ।
निर्धर्मका निराधाराः न चेत्स्यादनवस्थितिः ॥
धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां, तथा स्यादनवस्थितिः ॥
158

धर्मधर्मिभाववादः 159
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदस्स्यादनिश्चितः ॥
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।
दृष्टे तस्मिन्नदृष्टेऽपि तद्ग्रहे सकलग्रहः ॥
त्वगाद्येकैकेन्द्रियस्य ग्राह्या इत्यपि तत्स्थितिः ।
तेषां पुञ्जः प्रपञ्चोऽयं संबन्धस्यानवस्थितेः ॥
क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु ।
न षष्ठमिन्द्रियं द्रव्यग्राहकं विद्यते बहिः ॥
तत्र धर्मातिरेकेण धर्मिणोऽनुपलम्भनात् ।
संघातमात्र एवायं गवादिस्स्यादनादिवत् ॥
सिद्धे ज्ञानसुखादीनां गुणत्वे गुणिकल्पना ।
न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः ॥
एत एव विशेषैकवादिनोऽद्रव्यवादिनः ।
प्रायो वैभाषिका एते यथाच वनवादिनः ॥
३ अथ केचन सन्मात्रं विदुः तत्तु स्वलक्षणम् ।
तदेतत्सर्वसामान्यसहमित्यपि तैः स्मृतम् ॥
द्रव्यं गुणः कर्म जातिः नाम चेत्यपि पञ्चधा ।
विकल्प्यते वासनया वस्तुभावेन तद्यथा ॥
गोविन्दो वेणुमान् श्यामः गोपोऽयं गायतीत्यपि ।
प्रतीतिर्व्यवहारश्च वर्तते न तु वस्तुतः ॥

60 मानमेयरहस्यश्लोकवार्तिके
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतस्स्वयम् ।
कोऽन्यो न दृष्टो भागस्स्यात् यः प्रमाणैः परीक्ष्यते॥
स्वलक्षणः स प्रत्यक्षः निर्विकल्पकगोचरः ।
इत्याहुस्ते हि सन्मात्रवादिनः धर्मिवादिनः ॥
सामान्यवादिनश्चापि तथैवापोहवादिनः ।
बाह्याद्वैतिन इत्येवं कथ्यन्ते बहुरूपतः ॥
भेदे धर्मिस्वरूपे तु भ्रमः क्वापि न संभवेत् ।
धर्मरूपेऽनवस्था स्यात् अन्योन्याश्रयताऽपि वा ॥
भेदकाग्रहणे भेदो न गृह्येत कथंचन ।
तस्य चाग्रहणे सोऽपि न गृह्येतेति संग्रहः ॥
अभावस्य यथा देशकालाद्यैः सिद्धिरन्यथा ।
तथा रूपादिवस्तूनां किं न स्यात्सिद्धिरन्यथा ॥
साधारणोऽथान्यथा वा संबन्धो धर्मधर्मिणोः ।
आद्ये सकलसांकर्यं अन्त्ये भेदो न सिद्ध्यति ॥
आधाराधेयभावोऽपि न भेदे व्यवतिष्ठते ।
स्वभावात्रियमश्चेत्स्यात् स्वभावादेव चैकता ॥
4 सौत्रान्तिकानां सिद्धान्तः प्रायेणायमिति स्थितः।
द्रव्याद्रव्यैक्यसिद्धान्तस्त्वथ कापिलसम्मतः ॥
वस्तुजातं प्रतीत्यैव व्यवस्थाप्यं हि सर्वशः ।
धर्मी धर्मः प्रतीयेते नातोऽन्यतरनिह्नवः ॥