सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 191, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 191

प्राभाकरात्मा
11 आवृत्तिभिर्यथाऽध्याये संस्कारो भवति क्रमात् ।
वाक्यावयवरूपेण तथाऽपूर्वं भविष्यति ॥
नैकरूपैव भावानामभिव्यक्तिः प्रतीयते ।
आत्मस्थोन्मीलनं तेन व्यक्तिरस्य भविष्यति ॥
सर्वावाप्तिसमर्थो वा प्रकृत्याऽऽत्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥
एवं विभुत्वं कर्तृत्वं भोक्तृत्वं तत्समर्थता ।
भाट्टसिद्धान्तानुरोधादात्मनामिह दर्शितम् ॥
(34) प्राभाकरात्मा.
1 आत्मतत्त्वं प्रकरणपञ्चिकायां निरूपितम् ।
श्रीमच्छाालिकनाथेन तत्त्वालोकेऽस्य संग्रहः ॥
बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रं अर्थवित्तिषु भासते ॥
भोक्ता च भोगायतनं भोगसाधनमेव च ।
भोग्यं भुक्तिरिति ह्यत्र भोक्ता त्वात्मेति निश्चितः॥
शरीरं भोगायतनं इन्द्रियं भोगसाधनम् ।
भोग्यं सुखादिकं भुक्तिः वेदनेति च विश्रुता ॥
आसु पञ्चविधास्वर्थतत्त्वं परिसमाप्यते ।
जरायुजं चाण्डभवं स्वेदजं च त्रिधा मतम् ॥