मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 602, कुल 672 में से
संदर्भ में पढ़ेंवाक्यमेवापरोक्षस्य करणं केचिदब्रुवन् ।
तत्र ध्यानापूर्वयुक्तं वाक्यं केचन मन्वते ॥
ध्यानयुक्तं वाक्यमेव नापूर्वमिति केचन ।
विषयस्यापरोक्षत्वात्तादृग्वाद इतीतरे ॥
भावनायाः प्रकर्षेण परे ध्यानं तु तादृशम् ।
वैशद्यातिशयात्साक्षात्कारवाग्गोचरं विदुः ॥
अन्ये तु तद्दिव्यदृष्टिलाभात्साक्षात्कृतिं विदुः ।
श्रवणं मननं ध्यानमथ दर्शनमेववा ॥
अधिकारानुरोधेन विकल्प इति यादवाः ।
अतश्च्रुतिमयी चिन्तामयी वा भावनामयी ॥
साक्षात्कारवती चेति प्रतिपत्तिर्विकल्पिता ।
कथेयं महती सर्वशास्त्रेष्वस्यास्ति विस्तरः ॥
१ मोक्षस्य साधनं सर्वसम्मतं तत्त्वदर्शनम् ।
तत्त्वदर्शनं यावदात्मभावीति ये विदुः ॥
ते सन्तु ये तु तस्यापि ज्ञानस्योपशमं विदुः ।
तेषां मतविकल्पोऽयं संक्षेपादवधार्यताम् ॥
यथाच कातको रेणुः यथा दग्धायसोदकम् ।
यथावा दग्धदहनः त्रिवृत्पानं यथाऽपिवा ॥
यथाच कनकारूढं रजतं कल्मषापहम् ।
स्वयं निवर्तते तद्वत् ज्ञानशान्तिं विदुर्बुधाः ॥