सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 601, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 601

मोक्षसाधनम् ५५९
अज्ञानादिह संसारः ज्ञानादेव परिक्षयः ।
प्रधानसाधनं मोक्षे ज्ञानमेते प्रचक्षते ॥
तच्च साक्षात्काररूपमित्यत्र न विकल्पना ।
बन्धस्य कारणं यस्मात्साक्षात्कारात्मको भ्रमः ॥
६ तत्सत्त्वपुरुषान्यत्वख्यातिस्स्यादिति कापिलाः ।
ईश्वरप्रणिधानं वा तत्तु पातञ्जला विदुः ॥
स तत्त्वनिर्णय इति गम्भीरन्यायवेदिनः ।
ईश्वरोपासनं वा स्यात्सादृश्यादिति केचन ॥
तत्त्वदृष्टिर्मुक्तिहेतुस्स्यान्निरीश्वरवादिनाम् ।
तत्त्वधीमूलकोपास्तिः स्वतन्त्रेश्वरवादिनाम् ॥
७ अविद्यया तु संसारो विद्यया मोक्षसंभवः ।
इति सामान्यतस्सिद्धेऽप्यत्र सूक्ष्मं विदुर्विदः ॥
तत्त्वनिर्णयमात्रेण नाविद्या विनिवर्तते ।
अविद्येश्वरस्याज्ञामतिवर्त्य प्रवर्तनात् ॥
तन्निग्रहोपशान्त्यर्थं तदुपासनमिष्यते ।
तस्यैव साधनं तत्त्वनिर्णयो न तु मुक्तये ॥
८ सामान्यतस्तत्करणविकल्पोऽत्र विविच्यते ।
प्रसंख्यानं विदुः केचित्प्रत्ययाभ्यासलक्षणम् ॥
तच्च ध्यानं भावना सा सैवोपास्तिः ध्रुवा स्मृतिः
प्रसंख्यानेन सहितं मन एवेति के चन ॥