मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 147, कुल 672 में से
संदर्भ में पढ़ेंपरमाणुवादः 105
2 स्पर्शाद्येकद्वित्रिचतुस्स्वभावाणुचतुष्कतः ।
पुञ्जः प्रपञ्चः संयोगोऽनुपपत्तिपराहतः ॥
इति वैभाषिकैः कैश्चित्सौगतैरभिधीयते ।
3 तत्रातिरिक्तावयविवादिभिः किल तार्किकैः ॥
प्रथमं संघटेते द्वौ परमाणू ततस्त्रिभिः ।
आरभ्यते च त्र्यणुकं द्व्यणुकैरिति कथ्यते ॥
परस्परानवष्टब्धदेशस्थितिरुपेयते ।
अण्वोर्द्व्यणुकयोर्वापि स देशो व्योमसंज्ञितः ॥
प्रभामण्डलमेवैतदिति केचन जानते ।
तस्याप्याश्रयदेशोऽन्यो वक्तव्य इति साम्प्रतम् ॥
बहुत्वसंख्यया दृष्टं महत्त्वं हेतुनिष्ठया ।
परोक्षत्वापरोक्षत्वसिद्धिस्तद्धेतुसाध्ययोः ॥
4 परमाणुरणुह्रस्वं द्व्यणुकं दीर्घमुच्यते ।
त्र्यणुकं तु महत्तस्मात्परिमाणचतुष्टयम् ॥
महत्त्वं षट्पार्श्ववत्त्वं त्रिभिर्दीर्घैस्तदुद्भवः ।
तस्मादुत्पद्यते सर्वं त्र्यणुकं द्व्यणुकैस्त्रिभिः ॥
ततश्च क्रमसामान्ये मानं खण्डनिदर्शनम् ।
मानं सङ्ख्याविशेषे तु नास्तीत्यारम्भ इष्यते ॥
5 अत्रेतरेषामाक्षेपसारांशोऽयं प्रदर्श्यते ।
स्वांशैस्संयुज्यावयवाः प्रारभन्तेऽतिरेकिणम् ॥
M.R. 14