सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 146, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 146

04 मानमेयरहस्यश्लोकवार्तिके
कैश्चित्तु तद्विष्णुपदं परमं पदमिष्यते ।
पञ्चभूतान्तर्गतो यः स द्वितीयोऽभिधीयते ॥
9 स्याद्वादिभिरथाकाशः लोकालोकविभेदतः ।
विभक्तः प्रथमः लोकाकाशो लोकेषु विद्यते ॥
सर्वलोकोपरिस्थो यः सोऽलोकाकाश उच्यते ।
स चानन्तः तत्र मुक्तास्सन्तीति सुधियो विदुः ॥
इत्थं विकल्पो वियतस्संक्षेपादिह सूचितः ।
सर्वार्थसिद्धौ सन्न्यायमञ्जर्यामस्य विस्तरः ॥
(24) परमाणुवादः.
1 अनित्यं सकलं वस्तु क्षणत्वाच्छून्यमित्यपि ।
दुःखं चेति हि सिद्धान्तः सौगतानां व्यवस्थितः ।
कार्यकारणयोरैक्यं तथैक्यं धर्मधर्मिणोः ।
अतो नित्यैकान्तवादः सांख्यानामिति निर्णयः ।
वैशेषिकादयस्तत्र नित्यानित्यत्ववादिनः ।
क्षितिवार्यग्निमरुतां नित्यास्स्युः परमाणवः ॥
व्योमकालदिगात्मानः नित्या एवं मनांस्यपि ।
अन्यानि कार्यद्रव्याण्यान्यनित्यानीति निर्णयः ॥
नित्यानित्यविभागः प्राक्स्थितो वेदान्तिनां मते
परमाणुस्वरूपे तु विचारोऽयं विमृश्यताम् ॥