सामग्री पर जाएँ
सर्वकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 117, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 117

य एतत्परतन्त्रं तु सर्वमेव हरेस्सदा ।
वशमित्येव जानाति संसारान्मुच्यते हि सः ॥
घातयन्ति हि राजानो राजाऽहमिति वादिनः ।
ददात्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥
मुक्तानामाश्रयो विष्णुः अधिकाधिपतिस्तथा ।
तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः ॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ।
सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ॥
नच नाशं प्रयात्येषः नचासौ भ्रान्तिकल्पितः ।
कल्पितश्चेन्निवर्तेत नचासौ विनिवर्तते ॥
महामायेत्यविद्येति नियतिर्मोहिनीति च ।
प्रकृतिर्वासनेत्येव विष्णोरिच्छा प्रकीर्त्यते ॥
तदिच्छयैव सकलं सर्वदा परिवर्तते ।
इति सिद्धान्तसारांशः शेषोऽन्यो ग्रन्थविस्तरः ॥
(17) आर्हतदर्शनम्.
1 अथार्हतानां सिद्धान्ते प्रमेयपरिचिन्तना ।
प्रायो वैशेषिकान्मीमांसकांश्चाप्यनुवर्तते ॥