मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 116, कुल 672 में से
संदर्भ में पढ़ें4 मानमेयरहस्यश्लोकवार्तिके
2 गुणक्रियाजातिपूर्वाः धर्मास्सर्वेऽपि वस्तुनः ।
स्वरूपभूताः ये त्वेतेष्वयावद्वस्तुभाविनः ॥
भेदाभेदो मतस्तेषां स्याद्विकारविकारिणोः ।
कार्यकारणयोश्चैव तथैवांशांशिनोरपि ॥
विशिष्टशुद्धयोश्चैव भेदाभेदः स्वतः मतः ।
अयमत्र विशेषांशः ज्ञातव्यस्सर्ववादिभिः ॥
3 एकं द्रव्यं गुणः कर्म सामान्यं सविशेषकम् ।
अभावश्शक्तिसादृश्ये अंशोंशीति विदुर्दश ॥
भेदहीने वस्तुनि या भेदबुद्धिनियामिका ।
शक्तिर्विशेषसंज्ञा सा मता सर्वपदार्थगा ॥
विशेषेण विभागोऽयं दशधाऽनेन कल्पते ।
व्यवहारव्यवस्था हि सर्वाऽनेनोपपाद्यते ॥
विशेषाणां तु वैशिष्ट्यं शक्तिशक्तनयात् स्थितम्
भिन्नाश्च भिन्नधर्माश्च पदार्थास्सकला अपि ॥
नानुवृत्ता जातिरपि द्वैतकांष्टेयमुच्यते ।
प्राक्प्रध्वंससदाभेदात् अभावस्त्रिविधो मतः ॥
भावाभावस्वरूपत्वात् नान्योन्याभावता पृथक् ।
4 सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने ॥
बन्धो मोक्षः सुखं दुःखं आवृत्तिर्ज्योतिरेव च ।
विष्णुनैव समस्तस्य समासव्यासयोगतः ॥