सामग्री पर जाएँ
सर्वकोश
मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)

Malla Purana: Ancient Indian Wrestling & Martial Arts

ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा

DevanagariSanskritpublished141 पृष्ठ

पृष्ठ 50, कुल 141 में से

संदर्भ में पढ़ें
पृष्ठ 50

द्वितीयोऽध्यायः ।
एवं प्रविष्टौ नगरे परमातिथ्यपूर्वकम् ।
स्थितौ दिनानि कतिचित् क्रीडाभिरुदितोत्सवैः ॥ १ ॥
तत्र सोमेश्वरो नाम ब्राह्मणो गर्गगोत्रजः ।
वेदवेदाङ्गविद्² धीमान् कलासु कुशलो युवा ॥ २ ॥
अतीव भक्तिमान् कृष्णे तत्त्वज्ञानपरो वरः ।
³कृष्णमाराधयत्येवं बलभद्रं च सन्ततम् ॥ ३ ॥
तं दृष्ट्वा भक्तिसंयुक्तं सुशरीरं कृतादरम् ।
संतुष्टो भगवान् कृष्णः प्रोवाच प्रीतिपूर्वकम् ॥ ४ ॥
श्रीकृष्ण उवाच ।
⁴कच्चित् संघाश्च सुखिनो नगरे सर्वदा नृणाम् ।
ब्राह्मणानां च सर्वेषां याज्ञिकानां च ऋत्विजाम् ॥ ५ ॥
तीर्थानि सन्ति पुण्यानि शुद्धोदकानि च सर्वशः ।
गावः कामदुधाश्चाग्निः ⁵पवनैः समिधः कुशाः ॥ ६ ॥
सोमेश्वर उवाच ।
सर्वतः कुशलं स्वामिन् ⁶प्रसादात् ते जनार्दन ।
भवत्प्रसादो येषां स्यात्तेषां विघ्नं कुतो नृणाम् ॥ ७ ॥
रामेण स्थापिताः पूर्वं पालनीयास्त्वयाधुना ।
इति श्रुत्वा वचस्तस्य भगवान् देवकीसुतः ॥ ८ ॥
कार्यद्वयं चिकीर्षुस्तं सोमेश्वरं जगाद ह ।
[ श्रीकृष्ण उवाच । ]
तुष्टोऽहं तव विप्रेन्द्र यतो भक्तोऽसि मे प्रियः ॥ ९ ॥


१ सहितोत्सवैः P. २ वेदवेदाङ्गपारगश्च P. ३ This line reads in P as
follows कृष्णश्चाराध्यते नित्यं बलभद्रेण संयुतः ४ This line reads in P as follows
कच्चित् अनामयं तेऽस्ति नगरेऽस्मिन्सर्वदा नृणाम्. ५ पवनः P. ६ त्वत्प्रसादाजनार्दन P,