मल्लपुराण (ज्येष्ठिमल्ल - प्राचीन भारतीय मल्लविद्या, अखाड़ा व्यायाम व कुश्ती महाग्रन्थ)
Malla Purana: Ancient Indian Wrestling & Martial Arts
ज्येष्ठिमल्ल परम्परा (सम्पादक: भोगीलाल ज. सांडेसरा एवं आर. एन. मेहता) द्वारा
पृष्ठ 49, कुल 141 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ५
अहो पुण्यं महद्भाग्यमस्माकं जन्म सार्थकम् ।
यो दुर्निरीक्ष्यो योगीन्द्रैः सोऽयं कृष्णः समागतः ॥ ४२ ॥
रम्यवृक्षदलैः पुष्पैस्तोरणैः प्रतिमन्दिरम् ।
गीतवाद्यप्रकाराद्यैरन्यैश्च विविधोत्सवैः ॥ ४३ ॥
ऋग्यजुःसाममन्त्रैश्चैराशीर्वादैरनेकंशः ।
वर्धापितौ द्विजश्रेष्ठैः सानन्दमतिसेवितौ२८ ॥ ४४ ॥
स्त्रीभिः संमानितौ तत्र दूराञ्चलनिबन्धनैः२९ ।
लाजाविकीर्णै३०(किरणै)श्चैव दूर्वाकुशसमन्वितैः ॥ ४५ ॥
देवासुरमनुष्यैश्च दुर्लभोऽयं श्रियः प्रियः ।
सौभाग्यसाधनः कृष्णो युवतीभिर्निरीक्षितः ॥ ४६ ॥
ध्यानगम्यः प्रियः साक्षाद् बहुपुण्यैकसंचयात् ।
अँतीव३१ दृष्टो वृद्धाभिः प्रहृष्टाभिः कृतादरम् ॥ ४७ ॥
बाला अप्यद्यै३२तानेककौतूहलविलोभितैः३३ ।
धाविताः संभ्रमात् कृष्णमवलोकयि(कि)तुमुत्सुकाः ॥ ४८ ॥
मार्गावसरमप्राप्य कृष्णदर्शनलालसाः ।
आरोहन्ति गृहाद्वा३४ल्लँताराप्रमभितः स्त्रियः ॥ ४९ ॥
अहमहमतिगच्छन्नुपर्युपरि संपतन् ।
इतस्ततो भ्रमन् लोकः स्वं परं नावगच्छति ॥ ५० ॥
इति श्रीमल्लपुराणे धर्मारण्यमाहात्म्ये ब्रह्मानारदसंवादे कृष्णपुरप्रवेशो नाम प्रथमोऽध्यायः३५।
२७ °रम्यैश्च B. २८ सानन्दपरिसेवितौ P. २९ दूरं चलन्निबन्धनैः P. ३० लाजावि-
कीर्णैश्च B. ३१ इतिव B. ३२ अत्य° ३३ °विलोकिताः P. ३४ B गृहपृष्ट ३५ In B,
the colophon reads as under—इति श्रीमल्लपुराणे ब्रह्मानारदसंवादे कृष्णपुरप्रवेशोत्सव-
प्रकरणं प्रथमम् ।