मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 95, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ८९
माधवः-
जितमिह भुवने त्वया यदस्याः
सखि बकुलावलि वल्लभासि जाता ।
परिणतबिसदण्डकाण्डपाण्डु-
स्तनपरिणाहविलासवैजयन्ती ॥ १५ ॥
(नेपथ्ये कलकलः । सर्व आकर्णयन्ति ।)
रे रे संकरपुरवासिजाणपदा, एसो खु जोवणारम्भरभरिदुव्वि-
सहामरिसरोसबइअरबलामोदीअविघडिदुग्घडिअलोहपञ्जरपडिलग्गसं-
गलिअणिअलो निजलीला विलासुब्वेलिवलहतुङ्गलकूलविअडवैजअ-
न्तिआ विसमडामरुद्दामसरीरसंणिवेसो मठादो अवक्कमिय तक्खणस-
तिण्णकवलिआणेअदेहिदेहावअवमज्झणिठुरत्थिखण्डखण्डणटंकारक-
१. रे रे शंकरपुरवासिजानपदाः, एष खलु यौवनारम्भभरितदुर्विषह्या-
मर्षरोषव्यतिकरबलात्कारविघटितोद्घाटितलोहपञ्जरप्रतिलग्नसंगळितनिगळोनि-
जलीलाविलासोद्वेलवल्गतुङ्गलाङ्गूलविकटवैजयन्तिकाविषमडामरोद्दामशरीर-
संनिवेशो मठादपक्रम्य तत्क्षणसतृष्णकवलितानेकडेहिदेहावयवमध्यनिष्ठुरास्थि-
कथंचित्संघटनोपाय एव झटिति प्रयोज्य इत्याशयः ॥ माधवः-जितमिति ।
सखि, पूर्वं मत्कण्ठावलम्बिनी भूत्वेदानीं मत्प्रियतमाकण्ठप्रणयिनीत्वेन मत्प्रयोजन-
संपादनैकप्रवणतया मम वयस्यभूते बकुलावलि, इह भुवने सर्वस्मिन्नपि प्रपञ्चे त्वयैव
जितं सर्वोतिशाय्युत्कर्षो लब्धः । यतोऽस्याः प्रियाया वल्लभा जातासि । मया हि
कथमहमस्या मदनुरागसूचकसस्पृहावलोकनगोचरो भवेयम्, कथमेतदीयशरीरसं-
स्पर्शसंजातसौहित्यनिर्वृतो भूयासम्, कथं क्षणमप्येतत्कण्ठालिङ्गनमहोत्सवचरिता-
र्थजीवनः स्यामिति सततं यदाशास्यते तदेतस्या निरन्तरततकुचमण्डलीमण्डनाय-
मानया सततं सस्पृहावलोकननिर्वर्ण्यमानया ममेयं जीवितालम्बनभूता प्रियसखी-
त्यनवरतमभिनन्द्यमानया सहस्रगुणमधिगतमित्यहो ते सौभाग्यातिशय इति
भावः । इदमेव विशेषणेन दर्शयति-परिणतो यो बिसदण्डस्तस्य काण्डः पर्व-
देशस्तद्वत्पाण्डुर्यः स्तनपरिणाहः कुचाभोगस्तस्य यो विलास उज्जृम्भणं तस्य
वैजयन्ती पताका उत्कर्षद्योतिका । अनेन माधवस्य स्वहस्तनिर्मितबकुलमालि-
कायाः प्रियतमाकण्ठाभरणत्वज्ञानेन हर्षप्रतीतेरत्युपशमाच्छ्रमो नामाङ्गमूक्तम् ॥
यथा-'अत्युपशमः शमः' इति । काव्यलिङ्गमलंकारः ॥ १५ ॥ एवमन्यो-
न्यानुरागव्यञ्जकेन परस्परावस्थानिवेदनेन शृङ्गारं परिपोष्य रसान्तरेण तं तिरो-
धातुं चूलिकाह्वयमर्थोपक्षेपमाह-नेपथ्य इति । 'अन्तर्यवनिकासंस्थैश्चूलिका-
र्थस्य सूचना' इति चूलिकालक्षणम् । रे रे शंकरपुरवासिजानपदाः, एष खलु यौ-