मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 81, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ७५
ताद, तुमं वि मह णाम एवं ति सबहा जिदं भोअतिण्हाए । (सान-
न्दम् ।) कहं महाउलप्पसूदो सो महाभाओ । सुहु भणिदं पिअस-
हीए कुदो वा महोअहिं वज्जिअ पारिजादस्स उग्गमो त्ति । अवि
णाम तं उणो वि पेक्खिस्सं ।
लवङ्गिका—सैहि, एसो क्खु महुरमहुरसाइमञ्जरिकवल-
णकेलिकलकोइलउलकोलाहलाउलिदसहआरसिहरुड्डीणचडुलचञ्चरी-
अणिअरवइअरुद्दलिददलकरालचम्पआहिवासमणोहरो मरालजहणप-
रिणाहुद्वहणमन्थरोरुभरविसंठुलक्खलिदचलनसंचलणोवणीअसेअसी-
अरसुहाबिन्दुज्जलमुद्धमुहचन्दचन्दणाअमाणसीअलफंसो तुमं परिस्स-
अदि कुसुमाअरुज्जाणमारुदो । ता पिअसहि, इदो परिक्कमावो ।
(परिक्रम्य प्रविशतः ।)
न पुनर्मालती । हा तात, त्वमपि मम नामैवमिति सर्वथा जितं भोगतृष्णया ।
कथं महाकुलप्रसूतः स महाभागः । सुष्ठु भणितं प्रियसख्या कुतो वा महो-
दधिं वर्जयित्वा पारिजातस्योद्गम इति । अपि नाम तं पुनरपि प्रेक्षिष्ये ।
१. सखि, एष खलु मधुरमधुरसार्द्रमञ्जरीकवलनकेलिकलकोकिलकुलकोला-
हलाकुलितसहकारशिखरोड्डीनचटुलचञ्चरीकनिकरव्यतिकरोद्दलितदलकराल-
चम्पकाधिवासमनोहरो मरालजघनपरिणाहोद्वहनमन्थरोरुभरविसंस्थुलस्खलि-
तचरणसंचरणोपनीतस्वेदशीकरसुधाबिन्दूज्ज्वलमुग्धमुखचन्द्रचन्दनायमानशी-
तलस्पर्शस्त्वां परिष्वजति कुसुमाकरोद्यानमारुतः । तत्प्रियसखि, इतः
परिक्रमावः ।
कार्यजातमद्योपक्रमिष्यामः ॥ 'नेपथ्य—' इत्यादि 'पुनः प्रेक्षिष्ये' इत्यन्तं
गतार्थः ॥ लवङ्गिका । सखि, एष खलु मधुरेण मधुरसेनाद्रीणां भृशं
क्लिन्नानां मञ्जरीणां कवलनमेव केलिस्तया कलोऽत्यन्तमधुरो यः कोकिल-
कुलकोलाहलस्तेनाकुलितात्सहकारशिखरादुत्त्रासेनोड्डीनानां चतुलानां चञ्चरीक-
निकराणां व्यतिकरेण विमर्देनोद्दलितदलानांमूर्ध्वं विकसितपत्राणां करालानां
दन्तुराणाम् । 'करालो दन्तुरे तुङ्गे विशाले विकचेऽपि च' इति वचनात् ।
चम्पकानां चाम्पेयकुसुमानामधिवासेन मनोहरः । मरालस्य समवृत्तस्य । 'मरालं
समवृत्तं स्यात्' इति वचनात् । जघनपरिणाहस्य नितम्बप्राग्भागविस्तारस्योद्व-
हनभारेण मन्थरं मन्दं तथोरुभरेण विसंस्थुलं विषमं स्खलितं यच्चरणसंचरणं
पादगमनं तेनोपनीतैः खेदशीकरैरेव सुधाबिन्दुभिरुज्ज्वलस्य मुग्धमुखचन्द्रस्य
स्वकीयस्य चन्दनायमानः शीतलस्पर्शो यस्य स त्वां परिष्वजति कुसुमा-
करोद्यानमारुतः । तदितः परिक्रमावः ॥ 'गतश्च तत्र माधवः' इति सूचितो
८ मालतीमा०