मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 349, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ८ ] मालतीमाधवटीका । १०१
पृ० पं०
२०२ २ ०तावत्पश्यावः० । ६ ०सली नो । ७ जीवन्त्युपेष्यति
न्वेत्युपशङ्कि० ।
इति मालत्यपहारो नाम अष्टमोऽङ्कः ।
मकरन्दः । वैक्लव्यं दुःखितम् । माधवः । कातर्यं कातरत्वं तेन चेष्टितानि
प्राणत्यागादीनि । यातेत्यादि । अस्माकं सखी भगवतीगृहं यदि गता भवेत्तदा
जीवन्ती समागमिष्यति । न वा गता तदा नागमिष्यतीत्याशङ्कितोऽस्मि । तत्र
हेतुः । बन्धुजनमित्रप्रियाणां संगम आदौ यस्य तत्सौहृद्यं बाहुल्येन विद्युत्स्फुरण-
चञ्चलमेव भवति । तदिह भगवतीपादमूलेति साधारणपदोल्लेखेन मालत्या भविष्य-
त्सौदामिनीपार्श्वगमनस्य सूचनेन नवमाङ्कावतारोऽपि सूचितः । अत एवाङ्कावता-
रोऽयम् । यदाह—‘समाप्यमान एकस्मिन्नङ्केऽन्यस्य च सूचनम् । समासतो हि
नाट्यज्ञैरङ्कावतार उच्यते’ ॥ सुहृन्मित्रम् प्रियं प्रीतिविषयं मनोज्ञं वस्तु ॥ १४ ॥
सूते स्म यं रत्नधरोऽतिमान्यो द्विजेष्टमान्या मदयन्तिकापि ।
जगद्धरं तत्कृतटिप्पणेऽह्नो गतोऽष्टमोऽयं रसरम्यरूपः ॥
इत्यष्टमोऽङ्कः ।