मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 346, कुल 377 में से
संदर्भ में पढ़ें९८ : अवचूरिका [ अङ्कः ८
पृ० पं०
१९४ ४ °अप्पमत्ता परि° । कहं बेला गमीअदुत्ति । होदु° ।
५ °मे वामेत्तरेण लोअणेण । ११ त्वद्वत्सलः क स तप° ।
१९५ १ चकिता वनवर्ति° । २ र्कि चेष्टसे ननु शिरात्कव° ।
३ °तमुत्तीर्य लवशो लवश एनां निकृत्य दुःखमरणं
क° । अनुगमिस्स° । १० °सुणिअ साभिक्खेवं दूरणिक्खेराविद्धविअडोरुदण्ड° ।
१९६ २ °मच्छरादिक्खेवो तक्स° । ३ ०पोढपाइकणिवहो
चन्दादवेण सोहसिह° । ८ ०पेक्खामि । अवि णाम
उज्जा° ।
स्त्रीणामनिष्टसूचकमिति भावः । अनेन कपालकुण्डलाप्रवेशोऽपि सूचितः ॥ त्व-
दित्यादि । ननु हे, स त्वत्प्रियः क्व वर्तते । तापसजनस्याघोरघण्टस्य घातकः
कन्याया विटोऽतिकामुकोऽसौ त्वां रक्षतु । अत एव पातीति पतिः । यच्चिराय
कवलितासि किं चेष्टसे ननवर्तिकेव । श्येनः ‘सेंवान’ इति ख्यातः पक्षी तस्यावपातो-
ऽतिवेगेन त्रस्तारण्यवर्तिका यथेत्यर्थः । ‘वर्तको वर्तिकादयः’ इत्यमरः । अत्र
वनग्रहणेन वर्तिकायाः खकुलवेष्टितत्वमुक्तम् । एतस्यास्तद्वैपरीत्यमिति भावः ।
यद्वा वनेनारक्षितत्वेन वर्तिकाया अतिभीरुत्वमुक्तम् । यद्वा वनावस्थानेन वर्ति-
काया एकाकिनीत्वमुक्तम् । अत एव मालत्यपि तथेति साम्यम् । नववर्तिकेत्यपि
पाठः ॥ ८ ॥ लवशो लवशोऽनेककणान् कृत्वा ॥ आक्षिप्य गृहीत्वा ।
मदयन्तिका । अत्रापिः प्रश्ने । संभावितो लब्धः । लवङ्गिका । अत्र उपनि-
र्गमः समीपगमनम् । एतेन मार्गस्य शून्यत्वमुक्तम् । अवक्षेपोऽवहेला । अपविद्ध-
माक्रान्तम् । विशालोरुयुगलदण्डाभ्यां निर्भरं गाढं यथा तथा धावित्वेत्यर्थः ।
अनीकं सैन्यम् । पिधा दुहिता । विप्रलम्भो वञ्चनम् । चन्द्रातपश्चन्द्रप्रकाशः ।
मालत्या वियोगदशायां तापकतवेनानुभवादातप इत्युक्तम् । मङ्गयते पौरलोकेनैव ।
मदयन्तिका । अत्र प्रसूता निर्गता । अहं प्रसूतेत्यन्वयः । अपीत्यादि शङ्का-
याम् । लवङ्गिका । अत्र नन्वहम् । अव्ययलादनेकार्थत्वम् । तथा च मद्वचन-
मपि न शृणोषीत्यर्थः । कलहंसकः । अत्र हीमाणहे इति हे मातरितिवन्नीचस्य
हर्षाश्चर्ये । पश्यामीव परबलमित्यन्वयः । धौतो निशितः । तरवारिः खङ्गः ।
विद्दुरिल्लं भीषणम् । कलितः स्वीकृतः । 'कलिवली कामधेनू' इति शाब्दिकाः ।
'कामपालो हलायुधः' इत्यमरः । आबिद्धा वक्रं प्रेरिता । हेला क्रीडा । कलिन्द-
तनया यमुना । संनिभमिति यथा बलेन हलकृष्ट्रा यमुना प्रतीपमागता तथा पर-
बलमपीति भावः । विस्तारेण वा बलस्य तादृग्यमुनासाम्यम् । विकटं विस्तीर्णं
यथा तथा । विस्रृङ्खलः स्वच्छन्दः । आपतितः संमुखागतः । निर्दयो निष्करुणः ।