मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 338, कुल 377 में से
संदर्भ में पढ़ें९० जगद्धरकृता [ अङ्कः ७
पृ० प०
१६९ १ सुदं अह्मेहिं जहा मम ण तुए संपदं कोमारबन्धईए
पओअणं ति । मदयन्ति० १ ॰एसो त्ति । अण्णं च
तुह्मे० । ११ ॰वालम्भदूसणस्स जं मू० ।
१७० १ ॰कहं वा आमन्तिदं वि णाम ण जाणीमो । ३
॰लदीए तारामेत्तं आसी तहिं सव० । ५ ॰त्तुणो
अवक्खा० । ६ ॰महादोसो त्ति जा० । ७ ॰हणा
अम्मकाओ दुमावेन्ति हिअ० । ८ ॰त्ति मां णं भ-
णिस्सध मद० । ९ ॰अइ असावधाणे असं० । १०
सह जम्पिस्सं ।
गेति । ओवग्गिदं पुञ्जीकृतं लम्बितमित्यर्थः । मुखावयवा ललाटादयः । विकासितं
चुम्बनादिनियुक्तम् । वदनस्य वैदग्ध्यं चुम्बनचातुर्यात् । इह कन्यायास्त्रिविधं
चुम्बनम् । ललितकच्छुरितकघटितकभेदात् । तत्र ललितकमाह—प्रस्फु-
रितेति । घटितकमाह—पुञ्जितं योजितम् । ईषत्परिगृह्य मीलितनेत्रा जिह्वाग्रेण
घटयति करेण नेत्रे तस्याच्छादयतीति घटितम् । छुरितकं तु प्रागेवो-
क्तम् । समुद्भूत उद्रेकः । एवं च सर्वाङ्गीणनायकस्पर्शात्प्रमोदमाह—मनो-
हरेति । उद्घर्षितमुद्भूतरोमाञ्चम् । नायिकाया वामाङ्गे सकलोपचारव्यव-
स्थापनात्कामकपोलेत्युक्तम् । वर्धमानां सुरतावस्थामाह—समुल्लसितेति ।
समुल्लसिताभ्यां साध्वसानन्दाभ्यां विषमो यः संभ्रमः संवेगस्तत्र मोहेन किंकर्त-
व्यतामूढतया मन्थरत्वमेकतरपक्षाव्यवस्थितिः साध्वसेन प्रवृत्तिरानन्देन च
निवृत्तिरित्याशयः । अनभ्यर्थनीयं सुरतादिकम् । ततो झटितीति जागरावस्था-
कथनम् । लवङ्गिका । अत्र मच्चूडकं विधायेति ह्यातम् । निःसहतनुत्वेनास-
नमच्चूडकेऽपि चातुर्यातिरेकवैदग्ध्यमिति भावः । पुष्पवतीशङ्कया परिजनहासनि-
वारणाय गोपनम् । बुद्धरक्षिता । अत्र पृच्छामि यदि हृद्गतं रहस्यं कथयसीति
भावः । मदयन्तिका । अत्र कृतापराध इत्यत्र शिरश्चालनगतिः । बुद्धरक्षिता ।
अत्रात्मसमर्पणमेव त्वया कार्यमिति भावः । मदयन्तिका । अत्र तद्दर्शनामृतसेक-
शीतला भविष्यामीति भावः । निःसङ्गः सर्वाङ्गव्यापी । बुद्धरक्षिता । अत्राद्यशब्दो
यद्यर्थो बलात्कारितो बलात्कारेण प्रवर्तितः। रुक्मिणी काममाता प्रद्युम्नमातृत्वात्।पक्षे
कामावस्थाकारिणीम् । पुरुषोत्तमः कृष्णः अथ च पुरुषेषूत्तमो मकरन्दः।स्वयं ग्राहेण
गान्धर्वेण । सधर्मचारिणी भार्या । प्रवृत्तिर्वार्ता । मदयन्तिका । इह मम भाग्येन
किं स्यादिति निःश्वास इति भावः । मदयन्तिका । अत्र काह्मात्मशरीरस्य किं
तु न क्वापि । मकरन्दस्यैव मच्चरीरमिति भावः । केरकशब्दः कृत्यकरवाची । प-