मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 284, कुल 377 में से
संदर्भ में पढ़ें३६ जगद्धरकृता [ अङ्कः २
पृ० प०
६२ ५ ॰ल्लगणीसासं॰ । ६ ॰रिसं जेव्व भअ॰ ।
६३ ३ ॰त्ती वैचित्यं ना॰ ।
६४ ७ ॰मन्त्र मया भ॰ । ११ ॰साहसाभासमि॰ ।
बाष्पं नेत्रजलम् । स्तम्भः । प्रतिबन्धः । मन्थरितो मन्दीकृतः । तादृशकण्ठे प्र-
तिलग्नो निःश्वासो यत्र तत् ॥ कामन्दकी । परिचयो मालत्यभिष्वङ्गः । उद्वेग-
कारणमिति शेषः ॥ इदमित्यादि । मालत्या इदं शरीरं विफलगुणातिशयं भव-
ष्यतीति त्वं किं न वेत्सि । अनुचितजामातृसंबन्धशोचनावहम् । यतः । इह ज-
गति यत्कामस्य जैत्रं जयनशीलमस्त्रं सहजविलासस्य निबन्धनं कारणं च । ए-
तेनैव सहजविलासा जायन्त इत्यर्थः । 'वरो जामातरि श्रेष्ठे' इति विश्वः ॥ ६ ॥
वैचित्यं विमनस्कत्वम् । नाटयति करोति ॥ लवङ्गिका । पितृनिन्दैव पूर्वश्लो-
कार्थ इति द्योतयति लवङ्गिका । अत्र जुगुप्सते निन्दति ॥ मालती । अत्रानु-
पहरणीयाप्युपहारीकृतेत्यनेन व्यङ्ग्येन पितुर्गुणानभिज्ञत्वं सूचितम्।उपहारश्च मरण-
शरणच्छागादिः क्रियत इति मरणतुल्यतास्य दर्शिता। इह पश्चात्तापनामा नाट्यालं-
कारः । यदाह—'अनुतापातिरेकस्तु पश्चात्ताप उदाहृतः' ॥ इति बालत्वात्स्ने-
हाच्च तातस्य गुणानभिज्ञत्वं मालती न जानातीत्याशयेनाह—गुणेत्यादि । इदं
कार्यं गुणनिरपेक्षममात्येन कथमारब्धम् । रूपादिमति पुरजने सति तद्रहितनन्द-
नाय मालतीदानं कथमुपक्रान्तमिति भावः । अत एवाश्चर्यम् । अथवा पक्षान्तरे ।
कुटिलनये परवञ्चननीतौ कुशलचित्तानां कुतोऽप्यस्नेहः । नैवेत्यर्थः । स्नेहस्य निरू-
पाध्युपकारेच्छारूपस्य नृपानुरञ्जनादानुपाधावभावादित्यर्थः । इदं यदुपक्रान्तं तदैदं-
पर्यमिदंपरम् । एतदभिप्रायकमिति यावत् । चतुर्वर्णादिलादिदंपरशब्दे ष्यञ्। उत
निश्चये वितर्के वा । यन्नृपतेर्नर्मसचिवो नन्दनः कन्यादानादस्माकं मित्रमनपकारी
भवदित्येवमुपक्रान्तम् । निष्णात इत्यत्र 'निनदीभ्यां स्नातेः कौशले' इति षत्वम् ।
'उत निश्चयवितर्कयोः' इति धरणिः । कामोपचरणं नर्म । यदाह—'उपचारः
स्त्रीपुंसयोर्मनोजन्मनिबन्धनः । स एवात्र परिज्ञेयो नर्मसंज्ञः प्रयोक्तृभिः' ॥ इति
भरतः ॥ ७ ॥ लवङ्गिका । इतीति दुर्दशनादिकम् ॥ लवङ्गिका । अत्र जी-
वितमपि निष्फलदुःखबहुलत्वाभ्यां मरणकल्पं जीवितमरणम् ॥ कामन्दकी ।
उक्तप्रबन्धेन मालतीनैराश्यं विधायाह—अयीति । भगवत्येति । 'कृत्यानां कर्तरि
वा'इति तृतीया न तु षष्ठी । अशक्यमित्यकारप्रश्लेषसंभवात् । गान्धर्वविवाहे क-
न्यावरौ प्रभवत इति प्रायःपदतात्पर्यम् । जनयितेति । राजेति भावः । माधववि-
वाहे भूरिवसुरेव सानुग्रहः । अत एव सरल इत्युक्तम् । किल प्रसिद्धौ । कौशिकी
कुशिकवंशजा । चकमे कामयते स्म । आख्यानं पुरावृत्तम् । इहाख्याननामा नाट्या-
लंकारः । यदाह—'आख्यानं तु तदुद्दिष्टं यत्पुरावृत्तकीर्तनम्' ॥ इति । निदर्शन-
नामा नाट्यालंकारोऽपि। यदाह—'कथनादन्यचेष्टानां साध्यसिद्धिर्निदर्शनम्'॥ इति