मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 283, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः २ ] मालतीमाधवटीका । ३५
पृ० ५०
६० ११ अथवा । नियत० । १३ ०मसृणमधुराकेक० ।
६१ ६ ०महाभागे, समीहितफलभाजनं० । ७ लवङ्गिका—
सुविहिदं आसणं । एत्थ उवविसदु भअवदी ।
दीरणादित्यर्थः । व्यतिकरो मिलनं तद्रूपं संधानम् । दारकर्मणि परिणये । परार्ध्यं
श्रेष्ठम् । अनुबन्धो रतिः । ऋद्धिरुपचयः ॥ निकाममित्यादि । इयं कल्या-
ण्यस्माकं मनो रमयति । कुतः । अत्यर्थं क्षीणाङ्गी । सरस आर्द्रः । अपर्युषित इति
यावत् । कदल्या गर्भो मज्जा तद्वद्गम्या क्षीणत्वपाण्डुत्वाभ्याम् । इह गर्भपदेनाति-
पाण्डुत्वं चोक्तम् । कलाशेषा शशिनो मूर्तिरिव द्वितीया चन्द्रलेखेव । अत एव
प्रस्तुतकार्यसंपादकत्वेन रमयति । उद्दाहेनोत्कटदाहेन विह्वलां दशामपन्ना सती
मनः कम्पयति । अतिपीडनादनिष्टशङ्कित्वादिति भावः । इह तनुताख्या काम-
दशा सूचिता ॥ ३ ॥ परीत्यादि । पांसुलं रूक्षम् । पाण्डुरूक्षकपोलवदनापीयं
रम्या । यतो मनोजन्मनि जने वलन्कामस्य विकारो यादृशस्तादृश ईप्सितः स-
न्विजयी भवति ॥ ४ ॥ संकल्पो मनोव्यापारः ॥ नीवीत्यादि । जघनवस्त्रब-
न्धनं नीवी । तस्या बन्धस्य ग्रन्थेरुच्छ्वसनं शिथिलता । वासःश्लथतानुरागादपि ।
यदाह—'स्वेदोत्कवेपथुस्तम्भाः श्लथता जघनच्छदे । आविर्भवति नारीणामनुरागव-
शात्मनाम् ॥' अधरस्पन्दनमधरकम्पनम् । एतत्तु स्फुरितचुम्बने । यदाह—'रदने
विशन्तमोष्ठं प्रहीतुं या समिच्छति । निजोष्ठः कम्पते यच्च स्फुरितं चुम्बनं मतम् ॥'
दोर्विषादो बाह्वोर्निःसहत्वमालिङ्गनसौख्यात् । खेद आयासात् । मसृणं को-
मलम्, मधुरं ललितम्, संकल्पलब्धस्य दुरालोकत्वादाकेकरम्, शृङ्गारात्स्नि-
ग्धम्, सुखभावनया मुग्धं, चक्षुः । संकल्पमात्रलब्धतया प्रियेऽसूयायोगाज्जिह्या
दृष्टिः । जिह्या दृष्टिरसूयायाम् । यदाह—'ललिताकुञ्चितपुटा शनैस्तिर्यग्विदर्पिणी ।
निगूढा गूढतारा च जिह्या दृष्टिरुदाहृता ॥' लब्धे सति धृतिहर्षाभ्यां ललितम् । त-
ल्लक्षणं तूक्तमेव । 'आकेकरा घनालोके विच्छेदे प्रोषितेषु च । आकुञ्चितपुटापाङ्ग-
संगतार्धनिमेषिणी ॥ मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा मता ॥' 'दोर्दोषा भुजा
भुजः' इति शब्दभेदः । गात्रस्तम्भः शरीरनिश्चलता । अतिहर्षात् । यदाह—'अ-
तिहर्षभयरोषरागेभ्यः स्तम्भसंभवः ।' मुकुलाकारत्वात्स्तनावेव मुकुलौ । तयो-
रुत्प्रबन्धो विच्छेदरहितः कम्पः । प्रियस्य गाढालिङ्गनात् । गण्डाभोगे गण्डमण्डले
पुलकपटलं रोमाञ्चसङ्घः । प्रियचुम्बनसंकल्पात् । आत्यन्तिकतार्थं पटलग्रहणम् ।
मूर्च्छना मोहः । निरतिशयानन्दयोगात् । यदाह—'स्रस्तता वपुषि मीलनं दृशो-
र्मूर्च्छना च रतिलाभलक्षणम्' ॥ रतिविलाससंकल्पेनान्तरा चेतना च ॥ ५ ॥
मालती । बौद्धानां प्रव्रजितं प्रति वन्दामीति नतिसंप्रदायः । यद्वा वन्दामि वन्दे
इति सामान्यत एव ॥ कामन्दकी । मालतीचित्तविनोदाय स्वस्य च तद्विषया-
वष्टम्भदर्शनायाह—भाजनमिति । लवङ्गिका । कपटमेव नाटकम् । अत्र