मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 281, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः २ ] मालतीमाधवटीका । ३३
पृ० ५०
५५ १ ॰ताओ अम्मकाओ जाओ० । ॰पहवन्ति । (इति
रोदिति ।) (सांस्रम् ।) १० विसेसदो अज्ज पिअसहि,
(संस्कृतमाश्रित्य ।)
५६ १ ॰रागस्तीव्रं वि० । विसर्पत्यविरतं० । २ ॰निर्धूमो ज्व० ।
५ ॰एव्वं जेव्व पच्च० । ७ ॰णेण सविसेससमि० । ८ ॰सं-
मत्त० । ९ ॰दंसणा भविअ अज्ज० ।
च्छति ॥ लवङ्गिका । अत्र दुर्लभायां त्वयि मनोरथाभिनिवेशस्तेन यो दुःसहाया-
स्तेन दह्यमाने चित्ते क्षणमात्रनिर्वापकमिति ॥ मालती । अत्रानासङ्गोऽनाश्वासः ।
लवङ्गिका स्वयं लिखित्वा माधवलेखितत्वेन बोधयतीति भावः ॥ सदृशमिति ।
मधुरतया निर्माणस्य सदृशं वचनमित्यर्थः ॥ तवाकृतिर्मधुरा यथा तथा वचोऽपि
मधुरमित्यर्थः । यस्येदृशं वचस्तस्य कथमेवं दर्शनमित्युपालम्भपूर्विका पृच्छा । य-
दाह—‘यत्र भावनयोपेतमात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्य-
भिधीयते ॥’ नाट्यधर्मत्वेन परोक्षस्यापि प्रत्यक्षीकरणम् । यदाह—‘परोक्षेऽपि च
वक्तव्यो नार्या प्रत्यक्षवत्प्रियः’ ॥ अम्मकाशब्दः स्त्रियां कन्यायां वा देशी ॥
लवङ्गिका । अत्रोत्खण्डितं छिन्नम् । बन्धनं वृन्तशाखासंयोगः । कष्ठेलिशोकः ।
निःसहाऽक्षमा । परिखिद्यसे परीहीयसे । एतेन कामावस्था तनुतोक्ता ॥ मालती ।
अस्रं नेत्रजलम् ॥ संस्कृतमिति । आसन्नमरणतया प्रकृतिविपर्ययद्योतनाय
स्त्रियाः संस्कृताश्रयणम् । यद्वा मरणसमये प्राकृतस्मरणस्य हीनयोनिजन्मफलक-
त्वेन बोधनात्तत्काले स्त्रियाः संस्कृताश्रयणम् । यद्वा वैदग्ध्यद्योतनाय तत् । य-
दाह—‘संस्कृतभाषावाचः प्रायो नाट्येषु खलु स्त्रियाः श्लाघ्याः । क्वचिदपि विदग्ध-
तायाः प्रबोधनार्थं प्रशस्यन्ते ॥’ मनोराग इत्यादि । प्रियसखि, मामथ त्रातुं
न तातः प्रभवति न वा माता न वा त्वम् । कुतः । मनोराग आधिरविरतं
प्रमाथी क्षोभकारी यथा तीव्रं विषं तथा विसर्पति व्याप्नोति । यथा धातुत्वगादिषु
विषं व्याप्नोति तथाङ्गानि म उद्वेग इत्यर्थः । यद्वा सविशेषदर्शनाच्चित्तानुरोग इच्छा-
भेदस्तीव्रं यथा तथा मनो विसर्पति व्याप्नोति दाहकारित्वाद्विषमिव । तथा विधुतः
संधुक्षितोऽग्निर्यथा ज्वलति विधूननान्निर्धूमं यथा तथा स एव रागो ज्वलति ज्वा-
लामालाकुलीभवति । इत इतः सर्वत्र प्रत्यङ्गं हिनस्ति पीडयति गरीयाञ्ज्वर इव । तं
त्यक्त्वा ममाधिस्त्वया समाधातुं न शक्यत इति भावः । यद्वा तातस्त्रातुं न शक्नोति ।
नन्दननिरासेन माधवाय मददानात् । अम्बापि न तथा । तथानुवर्तमानस्य
तातस्यानषेधात् । लवङ्गिकायाश्च तयोः समशीर्षिकया गणनं स्वाच्छन्द्येन स्वम-
तप्रकाशनाय ॥ १ ॥ लवङ्गिका । अत्र भणितव्यं युज्यत एवेत्यर्थः । यस्याव्यक्तं
दर्शने चन्द्रस्यामित्त्वं जीवितसंशयं च कुरुते तस्य व्यक्तं दर्शनं त्वदुपन्यस्तप्रकारं
तापं कुरुत इति किमत्र चित्रम् । चन्द्रेऽमित्तत्वेन ज्ञानाभिधाच्छेद उक्तः । सुकु-
२५ माल०