मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 280, कुल 377 में से
संदर्भ में पढ़ें३२ जगद्धरकृता [अङ्कः २
पृ० पं०
५१ २ णीदा० मे इअं० ।
५२ ३ पेरन्तपरिअत्तणावि० ।
५३ २ दअं णच्चाविदासि । ५ ०सओ णाम का० ।
५४ १ ०अत्तणो पहुस्स दं० । ४ ०णिवावअंतु० । ७ अणा-
सङ्को । जे० । ०संभावेमि । ९ ०रदाए लक्खिअदि० ।
विरहोत्कण्ठितेयम् । यदाह—‘अनेककार्यसंयुक्तो यस्या नागच्छति प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा’ प्रियकथापरत्वे मोद्धायितभावोऽयम् ।
यदाह—‘श्रुत्वा कथां प्रियजनस्य सखीमुखेभ्यः कर्णोदरस्थितचलत्तनुतर्जनी-
कम् । यत्साङ्गभङ्गमिह जृम्भितमङ्गनानां मोद्धायितं तदुदितं कविभिः पुराणैः ॥’
मालती । प्रतिबद्ध घटिता ॥ मालती । मालती माधवचेष्टाकर्णनाकाङ्क्ष-
याजानतीवाह—कथमिव । कथं ममापराध इत्यर्थः ॥ लवङ्गिका । अत्र
दौर्बल्यादिना शृङ्गारित्वे तात्पर्यमुक्तम् । तथानिर्वचनीयप्रकारेण । विहस्तो
व्याकुलः ॥ लवङ्गिका । सोवीति । अत्र स त्वयापि विलोचनाभ्यां पश्यन्
प्रत्यक्षीकृतो दृष्ट एवेत्यन्वयः । अपिर्भिन्नक्रमः । उद्वेल्लकम्पमानम् । विभ्रमो
विशिष्टा भ्रान्तिः सोऽयमित्याकारा । सादृश्यं वा विभ्रमः । माधवस्य पुण्डरी-
काक्षत्वात् । विरचनापदेशेन घटनाव्याजेन यः संयमोऽन्यादर्शनं तं प्रापिताभ्यां
बलामोड्या बलात्कारेण विस्तरं गच्छद्भ्याम् । बलामोडिर्बलात्कारे देशी ।
यद्यप्यवलोकयन्नित्यनेन लोचनाभ्यामिति प्राप्तं तथापि विशिष्टलोचनप्रतिपाद-
नार्थं तदुक्तम् । विजृम्भमाणो वर्धमानः । स्तिमितः स्निग्धः । दीर्घपर्यन्तमति-
दीर्घम् । परिवर्तना पुनःपुनर्गमनम्, तत्र विलासो विशिष्टदृष्टिव्यापारस्तेन
ताण्डवितया नर्तितया भ्रूलतया विडम्बितः समीकृतोऽनङ्गशारङ्गविभ्रमः काम-
धनुर्विलासस्ततो विदग्धमिति क्रियाविशेषणम् । ‘गमनासनपाणिपादचेष्टा सवि-
शेषं नयनध्रुवां च कर्म । दयितोपगमे यदप्रयत्नात्क्रियते नूनमयं विलास
उक्तः ॥’ इति भरतः । शारङ्गरङ्गत इति प्रयोगाच्चारङ्गेति भिन्नो रेफः ॥
‘शारङ्गं धनुषि स्मृतम्’ इति शाश्वतः । ततस्तदवलोकनविकलता मालारम्यत्वे
हेतुरिति तात्पर्यमिह—मालती । आमिति तदुक्तस्वीकारे । ‘अम्मो’ इति
पाठे अम्मो हर्षे वितर्के वा । विप्रलम्भितो विप्रलम्भं प्रापितः ॥ तारकादित्वा-
दितच् । ततः स्वार्थे कः । आहुशब्दोऽत्राहोस्विद्वाचकः । शीलस्य बहुकालपरि-
चेयतया मुहूर्तमात्रसंनिधाने विप्रलम्भचिन्ता । किमिदं नयनविकारादिक्षाभा-
विकमानुरागिकं वेति ज्ञातुं न शक्यत इति भावः । ‘विप्रळम्भइस्सकाः’ इति
पाठे विप्रलम्भचिन्तका इति ज्ञेयम् ॥ लवङ्गिका । अत्र मन्मथेनेति शेषः ।
असंगीतकं निसृतनृत्यं यथा तथा नृत्यं कारितासीत्यर्थः । सासूयं परद्वेषसहि-
तम् ॥ मालती । हुमिति प्रणयकोपे ॥ लवङ्गिका । अत्र तस्मिन्भाषणे ।
खल हेतौ । इत्तीकृतं न्यासीकृतम् ॥ लवङ्गिका । अत्र कामयत इ-