महानिर्वाण तन्त्र (हिन्दी अनुवाद सहित)
Mahanirvana Tantra with Hindi Translation
शिव-पार्वती संवाद द्वारा
स्रोत: कल्याण मन्दिर · कल्याण मन्दिर · 1950 (उद्गम)
पृष्ठ 138, कुल 139 में से
संदर्भ में पढ़ें१२८ | हिन्दी महा-निर्वाण तन्त्र
तद्-वर्णं सकलं बोधं भाव-रूपं प्रकाशितं । सकारः शङ्करी ज्ञेया तकारो नाद-रूपकः ॥
शक्ति-ब्रह्म-मयं ज्ञानं सत् शब्दं भाव-बोधकं । व्यञ्जनं पुरुषं ज्ञेयं स्वरं ज्ञेयं च शङ्करीं ॥
शिव-शक्त्यात्मकं ब्रह्म सत्-शब्देनापि भाषितं । सकारं च तकारं च पुरुषं परमेश्वरि ॥
शक्ति-ज्ञानं मध्य-लुप्तं अकारं शब्द-बोधकं । पञ्च-नादं सप्त-विन्दुमेकाङ्कं परमेश्वरि ॥
एतैर्युक्तं सकारं हि त्रि-वकारं प्रकाशितं । सत्वं रजस्तमश्चैव त्रि-वकारेण भाषितं ॥
पञ्च-नादं पञ्च-तत्त्वं विन्दु-स्वर्गं विभूषितं । त्रिगुणाक्तं त्रिकोणं च प्रति-कोणं त्रयान्वितं ॥
काण-मात्रे विन्दु-मात्रं मध्ये नादं महेश्वरि ! सर्व-वर्ण-क्रममिदमङ्कं ज्ञेयं शिवोपरि ॥
विन्दु-द्वयं विना भद्रे अङ्क-मात्रं न जायते । नाद-विन्द्वङ्क-युक्त-वर्णं ब्रह्म-ज्ञानस्य कारणं ॥
तत्-शब्दं ज्ञेयं सत्-शब्दं सर्व-भाव-प्रकाशितं । तत्-सत् ज्ञेयं ब्रह्म-वोजं ॐकारेऽभूत् प्रकाशितं ॥
ॐकाराद् जायते सर्वं ॐकारे च प्रतीयते । सृष्टि-वोजं हि ॐकारं लय-वोजं त्रिलोचने ॥
हंस-वीजात् समुद्भूतं भावं भावातीतं ध्रुवं । दक्षिणानां च वामानां सिद्धान्तानां महेश्वरि ॥
हंसः सोऽहं च नाहं च भेदाभेदात्मनात्मकं । कौलानां चैव दिव्यानां भावातीतं हि केवलं ॥
प्रथम उद्धरण में आद्या-शक्ति 'महा-काली' के विराट् स्वरूप का भव्य वर्णन किया गया है। द्वितीय
उद्धरण में 'हंस-बीज' की महिमा बताई है कि 'हकार' शिव-स्वरूप है और 'सकार' शक्ति-स्वरूप । इस प्रकार
यह 'शिव-शक्त्यात्मक बीज-मन्त्र' है, जिसे जीव निरन्तर श्वास-निश्वास के साथ 'अजपा-रूप' से जपता रहता
है। तृतीय उद्धरण में १. स्थूल-ध्यान, २. तेजो-ध्यान ओर ३. सूक्ष्म-ध्यान—इन तोन प्रकार के ध्यानों का वर्णन
करते हुए 'ॐतत् सत्' मन्त्र का अर्थ समझाया गया है।