ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 9, कुल 272 में से
संदर्भ में पढ़ेंअथ किंचित्प्रास्ताविकम्—
इह खलु वसुंधरामण्डलवर्त्यखिलजनाभिलषणीयः सुखविशेष एव पुरुषार्थो नाम ।
स च पुरुषार्थः पुनः कृत्रिमाकृत्रिमेत्युभयप्रकारो यथाक्रमं काममोक्षपदाभ्यां व्याहि-
यर्ते । तदुभयसाधनत्वाद्धर्मः सकलाभिलषितो धर्मसाधनत्वादर्थोऽपि सर्वाभ्यर्थनीय
एवेत्यन्योन्यं तरतमभावापन्ना अपि विशेषतः पुरुषैरर्थ्यमानत्वाविशेषाच्चत्वारोऽपि
पुरुषार्थशब्दवाच्या एवेति निर्विचिकित्सः सिद्धान्तः । अथ ते पुरुषार्था अपि तादृश-
ज्ञानविज्ञानसाध्याः । ज्ञानविज्ञाने अपि तादृशतादृशचित्तैकसाध्ये । ततश्च विविधकर्मपरि-
पाकायत्तविविधचित्तवृत्तिशालिनो जनाननुजिघृक्षुः परमकारुणिको भगवान् परस्परवि-
लक्षणा अपि साक्षात्परम्परया वा परमपुरुषार्थैकप्रयोजनिका विविधा विद्याः—वेद-
शास्त्र-स्मृति-पुराणे-तिहासाद्याः—प्रवर्तयामास । ततश्चाखिलानामपि विद्यानां भगव-
त्प्रणीतत्वाविशेषेणाधिकारिभेदेन प्रामाण्यं सिद्धम् ।
तत्र तावत्कर्मभाग-ब्रह्मविज्ञानेति पूर्वोत्तरभेदेन संविभक्तं भूमिकाद्वयं