सामग्री पर जाएँ
सर्वकोश
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा

DevanagariSanskritpublished268 पृष्ठ

पृष्ठ 256, कुल 268 में से

संदर्भ में पढ़ें
पृष्ठ 256

( २३६ )
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥
महार्हशय्यापरिवर्तनच्युतैः
स्वकेशपुष्पैरपि या स्मदूयते ।
अशेत सा बाहुलतोपधायिनी
निषेदुषी स्थण्डिल एव केवलम् ॥
III. Explain any two of the following with reference
to the context in Hindi or English
(a) न कामवृत्तिर्वचनीयमीक्ष्यते
(b) न रत्नमन्विष्यति मृग्यते हि तत्
(c) पदं सहेत भ्रमरस्य पेलवं
शिरीष पुष्पं न पुनः पतत्रिणः
IV (a) Explain the formation of यदूढया and निषेदुषी
in 2 a.
(b) Parse प्रचक्रमे in Question I (a).
Ans I (a) सा देवी पार्वती यदा यस्मिन् काले तावता
तावत्प्रमाणेन पूर्वतपःसमाधिना पूर्वेणानुष्ठीयमान
प्रकारेण तपोनियमेन काङ्क्षितं अभीष्टम् फलं लभ्यं
लब्धुं शक्यं न अमंस्त मेने अशक्यम् अमंस्तेत्यर्थः तदा
तत्काले अविलम्बेनेत्यर्थः स्वशरीरमार्दवम् स्वशरीरस्य
कोमलतां मृदुत्वं वा अनपेक्ष्य अविगणय्य महत् दुस्तरं
तपः चरितुं साधयितुं प्रचकमे उपचक्रमे । यदा पूर्वोक्त-
प्रकारेण तप आचरंती पार्वती स्वाभीष्टसंसिद्धौ
ससन्देहा जाता तदा सा निजदेहस्य मृदुत्वम् अनादृत्य
कठिनतरं तपः कर्तुं निश्चितवती ।