कुलार्णव तन्त्र (हिन्दी व्याख्या सहित)
Kularnava Tantra with Hindi Commentary
भगवान शिव / पं. भद्रशील शर्मा द्वारा
स्रोत: कल्याण मन्दिर प्रयाग · कल्याण मन्दिर प्रयाग · 1950 (उद्गम)
पृष्ठ 21, कुल 84 में से
संदर्भ में पढ़ेंसाधनमाला १५
ऋं क्षेत्ररूपायै लोकमात्रे नमः दक्षनासापुटे ।
ॠं वनरूपायै कमलवासिन्यै नमः वामनासापुटे ॥
लूं आश्रमरूपायै इन्दिरायै नमः दक्षगण्डे ।
लूं गुहारूपायै मायायै नमः वामगण्डे ।
एं नदीरूपायै रमायै नमः ऊर्ध्वोष्ठे ॥
ऐं चत्वररूपायै लक्ष्म्यै नमः अधरोष्ठे ।
ओं उद्भिज्जरूपायै नारायणप्रियायै नमः ऊर्ध्वदन्तपंक्तौ ॥
स्वेदजरूपायै सिद्धिलक्ष्म्यै नमः अधोदन्तपंक्तौ ।
अं अंडजरूपायै राजलक्ष्म्यै नमः जिह्वामूले ॥
अः जरायुजरूपायै महालक्ष्म्यै नमः जिह्वाधः ।
कं लवरूपायै आर्यायै नमः दक्षबाहुमूले ॥
खं त्रुटिरूपायै उमायै नमः दक्षकूर्परे ।
गं कलारूपायै चण्डिकायै नमः दक्षमणिबन्धे ॥
घं काष्ठारूपायै दुर्गायै नमः दक्षांगुलिमूले ।
ङं निमेषरूपायै शिवायै नमः दक्षांगुल्यग्रे ॥
चं श्वासरूपायै अपर्णायै नमः वामबाहुमूले ।
छं घटिकारूपायै अम्बिकायै नमः वामकूर्परे ॥
जं मुहूर्तरूपायै सत्यै नमः वाममणिबन्धे ।
झं प्रहररूपायै ईश्वर्यै नमः वामागुलिमूले ॥
ञं दिवसरूपायै शाम्भव्यै नमः वामांगुल्यग्रे ।
टं सन्ध्यारूपायै ईशान्यै नमः दक्षपादमूले ॥
ठं रात्रिरूपायै पार्वत्यै नमः दक्षजंघायाम् ।
डं तिथिरूपायै सर्वमङ्गलायै नमः दक्षगुल्फे ॥
ढं वाररूपायै दाक्षायण्यै नमः दक्षपादांगुलिमूले ।
णं नक्षत्ररूपायै हैमवत्यै नमः दक्षपादाङ्गुल्यग्रे ।
तं योगरूपायै महामायायै नमः वामपादमूले ॥