कृषि-पाराशर (महर्षि पराशर - प्राचीन भारतीय कृषि, मृदा-परीक्षण, वर्षा-पूर्वानुमान व बीज-संस्कार)
Krishi-Parashara of Maharshi Parashara
महर्षि पराशर (सम्पादक: गिरिजाप्रसन्न मजूमदार एवं सुरेशचन्द्र बनर्जी) द्वारा
पृष्ठ 45, कुल 160 में से
संदर्भ में पढ़ें१४ कृषिपरशरः
रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्द्धयेत् ।
त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत् ॥५४॥
ईशानादिदक्षिणाङ्कान् संलिखेदनलादितः ।
येनयेनाजसंक्रान्तिस्तेन प्रावृट्फलं भवेत् ॥५५॥
1 A, C रेखां तिर्यक् for रेखात्रयं, ताडितं ( A भाजितं ) for ताभिस्ताः,
विदर्भयेत् for विवर्द्धयेत्. D तिर्यक् रेखावित् भवेत् for ताडितं...
विदर्भयेत् ।
2 D त्रिशूलं for त्रिशृङ्गं ।
3 A reads the line as ईशादिदक्षिणं शृङ्गान्तं लिखेदनलभादितः ।
C reads ईशादिदक्षशृङ्गान्तं लिखेन्नृतादिभिः ।
D reads ईशानादिदक्षिणांन्तं शिलिखेदनलादितः ।
4 A मेन for second येन. C तेन for first येन, वदेत् for भवेत् । D केनार्क
for येनाज ।
4-5 After this line A reads: —
अश्विन्यादौ समुद्रे स्यान्नक्षत्रं च द्वयंद्वयम् ।
तीरपर्वतकच्छेषु एकैकं परिकीर्तितम् ॥
B gives the verse with समुद्रेषु for समुद्रे स्यात्, कच्छपर्वततीरेषु for
तीर...कच्छेषु, as an alternative reading of the text quoted
above.
In place of this verse, D reads as follows: — अपां निधौ द्वयं
देयमेकैकं पर्वतेऽपि च । कच्छ्राष्टौ पर्वते चाष्टौ चतुस्तीरे चतुष्टयम् ॥
अश्विनिय...(?) पुष्पं सर्पं (?) वायुविशालमेव च...(?) देयं तु न निधौ
क्रमात् ॥