किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
पृष्ठ 462, कुल 707 में से
संदर्भ में पढ़ें२०४ किरासार्जुनीयम्
अथासामनुरागमेव कार्यतः प्रपञ्चयति—
प्रकृतमनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा।
प्रथममुपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ॥ ४१ ॥
मल्लि०—प्रकृतमिति। विलासि सविलासं नर्तकीनां संबन्धि। 'शिल्पिनि
ष्वुन्' इति ष्वुन्प्रत्ययः—'नृत्तित्वनिरपेक्षस्य एव' इति नियमः। चक्षुः कर्तृ प्रकृतं
प्रक्रान्तं अभिनेयमभिनेतव्यं रसभावाद्यभिव्यञ्जकं नानुससार। तददूषणं तदानुगुण्येनैव
दृष्टिप्रयोगनियमादिति भावः। तथा प्रविकसदङ्गुलि चञ्चलाङ्गुलि पाणिपल्लवं
वा नानुससार। स च दोषः 'यतो हस्तस्ततो दृष्टिः' इति नियमादिति भावः।
'पल्लवोऽस्त्री किसलयम्' इत्यमरः। 'वा स्याद्विकल्पोपमयोरेवार्थेन समुच्चये'।
इति विश्वः। किंतु, प्रथमं प्रवेश एव सिततुरगेऽर्जुने उपहितं सन्न चचाल तत्रैव
लग्नं तस्थौ। रागार्तेर्न किञ्चित्करणीयमनुसंधेयमिति भावः॥ ४१ ॥
हिन्दी—नाचनेवाली अप्सराओंके नेत्रने आरम्भ किये गये रस भाव आदिका
व्यञ्जक अभिनय विषयका अनुसरण नहीं किया वा विकसित होती हुई अंगुलियों-
वाले पाणिपल्लवका अनुसरण नहीं किया, किन्तु प्रवेश समयमें ही अर्जुनमें दिया
जाता हुआ उनका नेत्र विचलित नहीं हुआ, उन्हीं में लगकर स्थित हुआ ॥४१॥
अभिनयमनसः सुराङ्गनाया विहितमलक्तकवर्तनाभिताम्रम् ।
चरणमभिपपात षट्पदाली धूतनवलोहितपङ्कजाभिशङ्का ॥ ४२ ॥
मल्लि०—अभिनयेति। अभिनयो रसभावाद्यभिव्यञ्जकचेष्टाविशेषः। 'व्यञ्ज-
काभिनयो समौ' इत्यमरः। तत्र मनो यस्यास्तस्याः। व्यासङ्गाद् मुङ्गापातभजा-
नत्या इत्यर्थः। सुराङ्गनायाः संबन्धि अलक्तकवर्तनेन लाक्षारसरञ्जनेन अभिताम्रं
निहितं न्यस्तं चरणं षट्पदाली कर्त्री धूता नवलोहितपङ्कजाभामभिशङ्का प्रत्यग्र-
कोकनदभ्रमो यया सा। अभिपपाताभिधावति स्म। अत्र षट्पद्याल्याः स्त्रीचरणे
पङ्कजभ्रमाभिधानाद् भ्रान्तिमदलङ्कारः। तेन चोपमा व्यज्यत इत्यलङ्कारेणा-
लङ्कारध्वनिः ॥ ४२ ॥
हिन्दी—अभिनयमें मन देनेवाली अप्सराके लाक्षारसके रागसे लाल चरणोंमें
भ्रमरपङ्क्ति 'इसमें नया रक्तकमल रखा गया है' ऐसे भ्रमम पड़ गई ॥ ४२ ॥
अविरलमलसेषु नर्तकीनां द्रुतपरिशिक्तमलक्तकं पदेषु।
सवपुषमिव चित्तरागमूहूर्नमितशिखानि कदम्बकेसराणि ॥ ४३ ॥