काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)
Kavyaprakasha of Mammata with Hindi Commentary
आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा
पृष्ठ 127, कुल 616 में से
संदर्भ में पढ़ें74 KĀVYAPRAKĀŚA
क्रमेणोदाहरणम्
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् संप्रमाष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥५०॥
अत्र कोपस्य ।
एकस्मिन् शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ ५१ ॥
अत्रौत्सुक्यस्य ।
उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः
सत्संगप्रियता च वीररभसोत्फालश्च मां कर्षतः ।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्
आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥ ५२ ॥
the embrace of her sandal-painted breasts ?"—After she
had said this, I said 'where is it ?'—and embraced her
suddenly and quickly, for the purpose of wiping off
the mark; and the tender one forgot all about it under
the fervent bliss ensuing from that embrace'.
Here we have the 'allayment' of Anger.
(b) 'When the young woman lying on the same bed
had her indignation aroused on the naming of her rival,
she firmly disdained him with all his advances and loving
assurances; and he, having lain silent for a moment, the
girl looked back upon him, fearing that he might go to
sleep'.