सामग्री पर जाएँ
सर्वकोश
काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

काव्यप्रकाश (आचार्य मम्मट - सम्पूर्ण १० उल्लास सटीक)

Kavyaprakasha of Mammata with Hindi Commentary

आचार्य मम्मट / पं. विश्वेश्वर सिद्धान्तशिरोमणि द्वारा

DevanagariSanskritpublished616 पृष्ठ

पृष्ठ 125, कुल 616 में से

संदर्भ में पढ़ें
पृष्ठ 125

अत्र विधिं प्रत्यसूया ।
तदाभासा अनौचित्यप्रवर्त्तिताः ।
तदाभासा रसाभासा भावाभासाश्च ।
तत्र रसाभासो यथा
स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे ।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥ ४८ ॥
अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं
बहुव्यापारोपादानं व्यनक्ति ।