सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 303, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 303

248 EXPLANATORY NOTES
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः ॥
योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्ज्यायुधवाणिज्यैर्यैर्वर्तयन्तो व्यवस्थिताः ॥
शतद्रूचन्द्रभागाद्या हिमवत्पादनिर्गताः ।
वेदस्मृतिमुखायाश्च पारियात्रोद्भवा मुने ॥
नर्मदा सुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः ।
तापीपयोष्णीनिर्विन्ध्याप्रमुखा ऋक्षसम्भवाः ॥
गोदावरीभीमरथीकृष्णवेण्यादिकास्तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
कृतमालाताम्रपर्णीप्रमुखा मलयोद्भवाः ।
त्रिसामाचिपिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ।
आसां नद्युपनद्यश्च सन्त्यन्याश्च सहस्रशः ॥
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥
पुण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्वशः ।
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥
कारूषा मालवाश्चैव पारियात्रनिवासिनः ।
सौवीराः सैन्धवा हूणाः शाल्वाः शाकलवासिनः ॥
मद्रारामास्तथाम्बष्ठाः पारसीकादयस्तथा ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समीपेतो महाभागा हृष्टपुष्टजनाकुलाः ॥
विष्णुपुराण II, 3.
Vinayachandra enumerates 84 countries in his काव्यशिक्षा.
‘चतुरशीतिर्देशाः गौडकन्यकुब्जकौशाककलिङ्गाङ्गवङ्गकुराङ्गचाल्यकामाक्षओड्रपुण्ड्रोड्डीशमालवलो-
हितपश्चिमकाष्ठवालभसौराष्ट्रकङ्कणलाटश्रीमालार्बुदमेदपाटमरुवरेन्द्रयसुनागङ्गातीरान्तर्वेदिमागधमध्यकुरु-
काहलकामरूपकाञ्च्यवन्तीपापान्तककिरातसौवीरऔशीरवाकाणोत्तरापथगुर्जरसिंधुकेकाणनेपालटक्कतुरु-
ष्कताङ्ककारवुर्यूरजर्जरकश्मीरहिमालयलोहपुरुषश्रीराष्ट्रदक्षिणापथसिंघचौलकौशलपाण्डुअन्ध्रविन्ध्यकर्णाट-
द्रविडश्रीपर्वतविदर्भधाराउरलाजीतापीमहाराष्ट्राभीरनर्मदातटद्वीपदेशाश्चेति ।’
also हीरूयाणीत्यादि षट्कम् । पत्तनादि द्वादशकम् । मात्रादिक्षेत्रुविंशतिः । वड्डू इत्यादि
षट्त्रिंशत् । भालिजादि चत्वारिंशत् । हर्षपुरादि द्विपञ्चाशत् । श्रीनारप्रभृति षट्पञ्चाशत् । जम्बूसरप्र-
भृति षष्ठिः । पडवाणप्रभृति षट्सप्ततिः । दर्भावतीप्रभृति चतुरशीतिः । पेटलापद्रप्रभृति चतुरुत्तरशतम् ।
षदिरालुकाप्रभृति दशोत्तरं शतम् । भोगपुरप्रभृति षोडशोत्तरशतम् । धवलक्कप्रभृति पञ्चशतानि ।
माहडवासाद्यमर्धाष्टमशतम् । कौङ्कणप्रभृति चतुर्दशाधिकानि चतुर्दशशतानि । चन्द्रावतीप्रभृति
अष्टादशशतानि । द्वाविंशतिशतानि महीतटम् । नवसहस्राणि सुराष्ट्राः । एकविंशतिः सहस्राणि लाट-