सामग्री पर जाएँ
सर्वकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 201, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 201

146 EXPLANATORY NOTES
अत्राह—प्रवृत्तिरिति कस्मात् । उच्यते—पृथिव्यां नानादेशवेषभाषाचारवार्ताः ख्यापयतीति
प्रवृत्तिः । प्रवृत्तिश्च निवेदने । अत्राह—यदा पृथिव्यां नानादेशाः सन्ति, कथमासां चतुर्विधत्व-
मुपपन्नम् । समानलक्षणांश्चासां प्रयोग उच्यते । एवमेष समानलक्षणप्रयोगः । किंतु नानादेशवेष-
भाषाचारो लोक इति कृत्वा लोकानुमतेऽनुवृत्तिसंश्रितस्य नाट्यस्य मया चतुर्विधत्वमभिहितं भारत्यारभटी
सात्वती कैशिकी चेति । वृत्तिसंश्रितैश्च प्रयोगैरभिरता देशाः । यतः प्रवृत्तिचतुष्टयमभिनिर्वृत्तं
प्रयोगश्चोत्पादितः । तत्र दाक्षिणात्या भवेत् बहुगीतनृत्यवाद्या कैशिकीप्राया चतुरमधुर-
ललिताङ्गाभिनया । यथा—
महेन्द्रो मलयः सह्यो मेकलः पलपिञ्जरः ।
एतेषु संश्रिता देशाः स ज्ञेयो दक्षिणापथः ॥
कोशलास्तोशलाश्चैव कलिङ्गा एव गोशलाः ।
द्रविडान्ध्रमहाराष्ट्रा वैण्या वै वानवासजाः ॥
दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे ।
ये देशास्तेषु युञ्जीत दाक्षिणात्यां तु नित्यशः ॥
आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा ।
सैन्धवास्त्वथ सौवीराः आनर्तास्त्वार्बुदेयकाः ॥
दशार्णाश्चैपुराश्चैव तथा वै मार्तिका मताः ।
कुर्वन्त्यावन्तिमेते प्रवृत्तिं नित्यमेव तु ॥
सात्त्वतीं कैशिकीं चैव वृत्तिमेषा समाश्रिता ।
भवेत्प्रयोगो नान्यत्र स च कार्यः प्रयोक्तृभिः ॥
अङ्गा वङ्गाः कलिङ्गाश्च वत्साश्चैवोड्रमागधाः ।
पौण्ड्रनैपालिकाश्चैव अन्तर्गिरिबहिर्गिराः ॥
तत्र वङ्गसमा ज्ञेया मलदा मल्लवर्तकाः ।
ब्रह्मोत्तरप्रभृतयो भार्गवा मार्गवास्तथा ॥
प्राग्ज्योतिषाः पुलिन्दाश्च वैदेहास्ताम्रलिप्तकाः ।
प्राङ्गाः प्रावृत्तयाश्चैव युञ्जन्ति ह्यौड्रमागधीम् ॥
अन्येऽपि देशा एभ्योपि ये पुराणे प्रकीर्तिताः ।
तेषु प्रयुज्यते ह्येषा प्रवृत्तिस्त्वोड्रमागधी ॥
पाञ्चालमध्यमायां तु सात्त्वत्यारभटी स्मृता ।
प्रयोगस्त्वल्पगीतार्थ आविद्धगतिविभ्रमः ।
पाञ्चालाश्शौरसेनाश्च काश्मीरा हास्तिनापुराः ॥
बाह्लीकाः शाकलाश्चैव मद्रकौशीनरस्तथा ।
हिमवत्संश्रिता ये च गङ्गायाश्चोत्तरां दिशम् ॥
ये श्रिता वै जनपदास्तेषु पाञ्चालमध्यमा ।
The verses आर्द्रार्द्रचन्दन and आ मूलतो are quoted in सदुक्तिकर्णामृत (II–86
and 99) under Rājaśekhara.
P. 8. l. 23. A reads परिमण्डलितान्तरीयम् instead of परिमण्डलितोत्तरीयम्.
P. 9. l. 26. Read "अनन्तानपि हि देशांश्चतुर्धैवैकल्य कल्पयन्ति चक्रवर्तिक्षेत्रं समासेन ।
तदवान्तरविशेषैः पुनरनन्ता एव" इति यायावरीयः । ]