काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 138, कुल 381 में से
संदर्भ में पढ़ेंतटे सह्यस्योच्चैः खसलिलनिवहो भाति नीलः स यस्याः
प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः ॥”
कृष्णहरितयोरैक्यम्— “मरकतसदृशं च यामुनं
स्फटिकशिलाविमलं च जाह्नवम् ।
तदुभयमुदकं पुनातु वो
हरिहरयोरिव सङ्गतं वपुः ॥”
कृष्णश्यामलयोरैक्यम्—
“एतत्सुन्दरि नन्दनं शशिमणिलिग्धालवालद्रुमं
मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति ।
यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिला-
मुद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥”
पीतरक्तयोरैक्यम्—
“लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥”
शुक्लगौरयोरैक्यम्— “कैलासगौरं वृषमारुरुक्षोः
पादार्पणानुग्रहपूतपृष्ठम् ।
अवेहि मां किङ्करमष्टमूर्त्तेः
कुम्भोदरं नाम निकुम्भपुत्रम् ॥”
एवं वर्णान्तरेष्वपि । चक्षुरादेरनेकवर्णोपवर्णनम् ।
तत्र चक्षुषः शुक्लता—
“तिष्ठन्त्या जनसङ्कुलेऽपि सुदृशा सायं गृहप्राङ्गणे
तद्द्वारं मयि निःसहालसतनौ व्रीडामृदुं प्रेङ्खति ।
हीनम्लाननयैव लोलसरलं निःश्वस्य तत्रान्तरे
प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः ॥”
श्यामता— “अथ पथि गमयित्वा रम्यकृत्सोपकार्ये
कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुनरविशदयोध्यां मैथिलीदर्शिनीनां
कुवलयितगवाक्षां लोचनैरङ्गनानाम् ॥”
१ B व्रीह्नां मृदुः २ V पुरमविशदयोध्यां.