सामग्री पर जाएँ
सर्वकोश
काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

Kavyadarsha of Mahakavi Dandin with Prasadini Commentary

महाकवि दण्डी द्वारा

DevanagariHindipublished270 पृष्ठ

पृष्ठ 257, कुल 270 में से

संदर्भ में पढ़ें
पृष्ठ 257

२३४ काव्यादर्श
किरोड़ीमलमहाविद्यालये दिल्लोस्थिते गिराम् ।
दिव्यानां पाठकः पुण्यैर्लेखनीं ग्राहितः करे ॥ १८ ॥
(१) आद्यानिरुक्तमीमांसा, (२) निरुक्ताध्यायपञ्चके ।
(३) अध्यायत्रितये चैव विद्वच्छात्रोपयोगिके ॥ १६ ॥
व्याख्ये, (४) वैदिकवाङ्मये भाषाचिन्ता तुरीयिका ।
(५) तारोदयाख्या व्याख्या च सत्तर्कसङ्ग्रहे, ततः ॥ २० ॥
(६) बालप्रबोधिनी टीकोपन्यासश्च पुरातने ।
तर्कसङ्ग्रहटीके द्वे पाठशोधात् प्रकाशिते ॥ २१ ॥
(७) आद्याध्याययोर्व्याख्या गीताभाष्यनवाम्बरा ।
(८) टीकेशोपनिषद्भाष्ये कुसुमाञ्जलिनामिका ॥ २२ ॥
(६) निगमबोधतीर्थस्य श्रीशङ्करजगद्गुरोः ।
चरिताख्यानकाव्यस्यान्वयानुवादभूषणम् ॥ २४ ॥
(१०) सिद्धान्तकौमुदीम्वादि व्याख्याऽऽद्या भवतोषिणी ।
छात्रावस्थाकृतारम्भा पूरिताऽध्यापकेन या ॥ २३ ॥
त्रयोविंशतिरस्यांश्च लिखितायाः समा गताः ।
प्रकाश्येति' दशग्रन्थीसन्तत्याऽतुष्टमानसः ॥ २५ ॥
विद्वत्पादरजोमृष्टाशेषधातुमलः शिवः ।
(११) टीकामातनवं चेमां दययाच्छात्रमण्डले ॥ २६ ॥
भक्त्या दण्डिनि, गीर्देव्याः कृपया, पुण्यसम्पदा ।
ब्राह्मम्यं सफलं मन्वे गीर्वागध्ययनं तथा ॥ २७ ॥
(आशीः)
शास्त्रचर्चामिषेणेयमाराधना शुभप्रदा ।
प्रीतये युषदो देव्यै बोभूताद् दण्डिनो मयि ॥ २८ ॥
प्रीयतां चैव नित्या सा नित्य वागीश्वरी शुभा ।
विधौतान्तर्मला दिव्या चतुर्वर्गप्रदायिनी ॥ २६ ॥
श्रद्धयेतोऽपि भूयस्या सेवेय भारतीं सदा ।
आविर्भयान्मतौ मे सा मन्दायामपि भास्वती ॥ ३० ॥
त्रिभिरृणैर्ऋणावा यज्जायते पुरुषस्त्विह ।
तेषामेकतमस्यापि लभेयानृण्यमंशतः ॥ ३१ ॥
॥इति श्रीदण्ड्याचार्यकृतौ काव्यादर्शे तृतीये शब्दालङ्कार-दोष-लक्षण-परिच्छेदे
शिवनारायणशास्त्रिकृता प्रसादिनी नाम टीका पूर्णा ॥
१. विश्वविद्यालयेनेयं दिल्याख्येन प्रकाशिता ।
भूयसा विदुषां तोषमाधेयादवलोकिता ॥