सामग्री पर जाएँ
सर्वकोश
काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

Kavyadarsha of Mahakavi Dandin with Prasadini Commentary

महाकवि दण्डी द्वारा

DevanagariHindipublished270 पृष्ठ

पृष्ठ 256, कुल 270 में से

संदर्भ में पढ़ें
पृष्ठ 256

प्रसादिनीकारका निवेदन २३३
( काव्यादर्श-प्रशंसा )
अहो एतस्य वैमल्यं सुधी-हृदय-रञ्जनम् ।
दण्ड्याचार्यमतेर्गर्भात् प्रसूतस्य विराजते ॥ ४ ॥
(दण्ड्याचार्यस्तुतिः)
भामहो न विधुस्तुल्यः क्षीणः पक्षान्तरे स्थितः ।
सञ्छन्नो मेघमालाभिः शुक्ले पक्षेऽप्यशोभनः ॥ ५ ॥
विसञ्ज उद्धटः सोऽयं काव्ये व्याकरणं श्रयन् ।
दण्डिनि प्रतिपक्षे व भामहं मध्यमं नृपम् ॥ ६ ॥
रीतित्रयप्रभेदेन त्रिविक्रमायते तु यः ।
किं पुनर्बलिनो ह्यस्य सम्मुखे वामनो हि सः ॥ ७ ॥
(टीकाकारका परिचय)
खरकग्रामभूः पुण्या ब्रह्मदत्तबुधप्रसूः ।
विद्याशौर्याढ्यहर्याणे श्रीरोहितकमण्डले ॥ ८ ॥
शिवकरणशर्मख्यविप्रस्यासन् सुताः स्तुताः ।
ब्रह्मण इव वेदार्या विष्णु-माडू यमौ तयोः ॥ ६ ॥
तुलसीराम-रामज्यौ तृतीयस्य सुतास्त्रयः ।
हरिरामारुणो ग्रस्तो मध्येऽह्नो मृत्युराहुणा ॥ १० ॥
अस्ति तस्यात्मजः शास्त्री व्रजनारायणः सुधीः ।
हरिरामानुजः श्रीमान् श्रीनिवासो विदां वरः ॥ ११ ॥
ज्योतिर्विद्भूषणं शैवः पूतात्मा तपसा परम् ।
रामविलासनामास्यास्त्यनुजो दैववित् परः ॥ १२ ॥
मयि स्निग्धाऽस्य भार्या च पूज्या कलावती शुभा ।
कनीयानस्ति पुत्रः श्रीमुरारीलालसञ्ज्ञकः ॥ १३ ॥
विष्णुदत्तस्य शास्त्रेषु नैकेषु व्याकृतौ श्रुतौ ।
कर्मकाण्डे च नाक्षत्रे वेदान्ते प्रथितो बुधः ॥ १४ ॥
बाणाङ्कग्रहभूवर्षे १६६५ वैक्रमेऽशुक्लपक्षतौ ।
ज्येष्ठे प्रार्तजनिर्मेऽभूत् सीतायां श्रीनिवासतः ॥ १५ ॥
भगवती च विद्या च भगिन्यौ पुण्यलक्षणे ।
तारादेवी शुभा भार्या कैशोरात् सङ्गिनी ययौ ॥ १७ ॥
लोकान् दिव्यान् सुखान् भोक्तुमतुष्यन्तीव मानुषे ।
कुसुमाख्या ततश्चोढाऽम्बाऽऽदेशेन शुभोदया ॥ १७ ॥