सामग्री पर जाएँ
सर्वकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 345, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 345

उक्तो मधुपर्कः । एकादश्यां वरणं कृत्वा गोदानिकेन विधानेन केशश्मश्रुरोमनखानि
वापयित्वा । केशवर्जं पत्नी नखानि कारयेत् । स्नातावहतवाससी भवतः । सुरभिणी
भूत्वा दाता उपनयनवद् दण्डमेखलायज्ञोपवीती । त्रिरात्रं दीक्षाग्रहणं सह पत्न्या ।
अग्नये ब्रह्मणे गुरवे व्रतश्रावणं कृत्वा ततो व्रतादानीया अष्टौ समिध आदधाति ।
ततः कर्त्ता अभ्यातानाद्युत्तरतन्त्रं करोति । हविष्यभक्षणादि कर्ता कारयिता पत्नी च
करोति । अथ चतुर्दश्यां प्रातर्यज्ञोपवीती शान्त्युदकं कृत्वा देवयजनं संप्रोक्ष्याकृति-
लोष्टवल्मीकेनास्तीर्य दर्भैश्च गो अश्वाजाविलोमभिः । पलाशमयी अरणीद्वयेनाग्निं
मन्थयेद्यजमानः । अग्ने जायस्वेति । सू० २०-२१।—पत्नी नाम यजमाननामग्रहण-
मिति प्रथमे अर्धर्चे । सू० २३। अग्रेऽजनिष्ठ इति त्रिभिः पादैर्जातं । अस्यै रयिमिति
पादेन पत्नीमनुमन्त्रयते । सू० २४।—उत्तमं नाकमिति दातारं पादेन वाचयति ।
एवं ब्रह्मौदनिकमग्निं मथित्वा स्थण्डिलेऽग्निं कृत्वा "यद्देवा पूर्णहोमं जुहुयात् । पूर्ण-
होमस्य विधानं शान्तिकल्पे उक्तं । "यद्देवा देवहेडनमित्यनुवाकेनाज्यं जुहुयात्समि-
धोऽभ्यादध्यात् । शकलान् वा दध्यात् । एवं ब्रह्मौदनिकमग्निं संवत्सरं दीपयत्यहो-
रात्रौ वा यथा कामी वा । संवत्सरं तु प्रशस्तं । सू० २५।—अथामावास्यायां प्रात-
रुदकाहरणं करोति । ब्राह्मणोमलंकृतां साधुवादिनीं उदकघटं हस्ते गृहीतां प्रेष्यति ।
सू० २८।—गृहद्वारे । सू० ३१-३२।—ततः “पुमान्पुंस” इति पादेन यजमानं
आरोहयति । तत्र व्हयस्वेति पादेन पत्नीं आह्वयीत । सू० ३३।—“यावन्तावग्ने
प्रथममिति पादेन अपत्यानि अन्वाह्वयीत । सू० ३५।—उदकघटमनुनिपद्येते ॥
कण्डिका ॥ ६१ ॥
सू० १।—प्रतिदिशमुपतिष्ठते मन्त्रोक्तं ॥ सू० ४।—भूमौ स्थापयति सर्वाणि
कर्माणि तेनोदकेन कुर्यात् ॥ सू० ५।--“पुनन्तु मा वायोः पूतो वैश्वानरो रश्मि-
भि”रिति पवित्रगणः । एतेन दाता पत्नीमपत्यानि च···पवित्रेण प्रोक्षयेत् । सू०
६।—अथ निर्वापकरणं ॥ सू० ७।—ततोऽनडुहि व्रीहिं त्रीणि विभागानि करोति ।
ततो देवपितृमनुष्यत्रयं पत्नी अनजानत्यै प्रयच्छति । कर्त्ता प्रैषं ददाति । व्रीही-
न्विभागेषु निधाय कर्ता “त्रेधा भागो निहित” इति त्रिभिः पादैः···अनुमन्त्रयते ॥ सू०
९।—यः पितृभागस्तेनावभृथान्ते वृद्धिश्राद्धं करोति ॥ सू० १३।—निरुप्तान्
अभिमृशतः ॥ सू० १५-१७।—त्रीन्वरान्वृणीष्वेति दातृप्रैषं दत्त्वा एवं पत्न्यै ददाति ।
तौ “वृणन्तौ त्रयो वरा” इत्यर्धर्चेन प्रतिपत्न्यनुमन्त्रयते । दाता सर्वकर्मणां समृद्धिभिः
प्रथमं वृणीते ॥ सू० २१।—उर्ध्वो नकस्येत्यर्धर्चेन मुसलमुच्छ्रयन्तीमनुमन्त्रयते ॥
२४। उदूूहन्ती ॥ सू०२६।—“अस्यै रयि”मिति पादेन । अवक्षिणन्ती ।—
कण्डिका ॥ ६२ ॥
सू० १।—पत्न्या दर्वी ग्राहयति ।···सू० ३। दर्ष्या कुंभ्यां ॥ सू० ४।—
७